________________
द्विस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् तथाहि-अथवेति प्रकारान्तरताद्योतने, धातकीखण्डद्वीपे यो नगानां हिमवदादीनां वर्षधरपर्वतानां विष्कम्भो भवति स द्विगुणस्सन् पुष्करवरद्वीपार्द्ध नगानां हिमवदादीनां क्रमेण विष्कम्भो ज्ञातव्यः । तथाहि-धातकीखण्डे हिमवति शिखरिणि च प्रत्येकं विष्कम्भ एकविंशतिर्योजनशतानि पञ्चोत्तराणि द्वाविंशतिश्चतुरशीतिभागा योजनस्य २१०५२४, पुष्करवरद्वीपाढे द्विचत्वारिंशद्योजनशतानि दशोत्तराणि चतुश्चत्वारिंशच्चतुरशीतिभागा योजनस्य ४२१०४४ । 5 तथा धातकीखण्डे महाहिमवति रुक्मिणि च प्रत्येकं विष्कम्भः चतुरशीतियोजनशतानि एकविंशत्यधिकानि चत्वारश्चतुरशीतिभागा योजनस्य ८४२१ ४, पुष्करवरद्वीपाः षोडश योजनसहस्राणि अष्टौ शतानि द्विचत्वारिंशदधिकानि अष्टौ च चतुरशीतिभागा योजनस्य १६८४२ ८ । तथा धातकीखण्डे निषधे नीले च प्रत्येकं विष्कम्भः त्रयस्त्रिंशत्सहस्राणि षट् शतानि चतुरशीत्यधिकानि योजनानां षोडश च चतुरशीतिभागा योजनस्य ३३६८४ १८ , 10 पुष्करवरद्वीपार्द्ध सप्तषष्टिः सहस्राणि त्रीणि शतानि अष्टषष्ट्यधिकानि योजनानां द्वात्रिंशच्चतुरशीतिभागा योजनस्य ६७३६८३२ ॥८३॥
सम्प्रति वर्षधर-वक्षस्कारादीनां विस्तारोच्छ्रयपरिमाणमाह[पृ०१४३] वासहरा वक्खारा, दह-नइ-कुंडा वणा य सीआए ।
दीवे दीवे दुगुणा, वित्थरओ उस्सए तुल्ला ॥८४॥ [बृहत्क्षेत्रस० ५/३८] 15 ___ व्या० वर्षधरा हिमवदादयः, वक्षस्काराश्चित्रादयो विजयाद्यन्तर्वर्त्तिनः पर्वता विद्युत्प्रभादयश्च गजदन्ताकृतयः, ह्रदाः पद्महदादयः, नद्यो गङ्गानद्यादयः, कुण्डानि गङ्गाप्रपातकुण्डादीनि, वनानि च शीतायाः, उपलक्षणमेतत्, शीतोदायाश्च समीपे यानि वनानि, तान्यपि द्वीपे द्वीपे विस्तारमधिकृत्य पूर्वस्मात् पूर्वस्माद् द्विगुणानि वेदितव्यानि, उच्छ्रये च चिन्त्यमाने पुनः सर्वाण्यप्येतानि तुल्यानि इत्यक्षरार्थः, विस्तरार्थिना तु बृहत्क्षेत्रसमासवृत्तिरवलोक्या, अक्षरार्थस्यैवात्र प्रायशः 20 प्रतिज्ञातत्वादिति ॥८४॥
साम्प्रतमिषुकारादिपर्वतगतमतिदेशमाहउसुआर-जमग-कंचण-चित्त-विचित्ता य वट्टवेअड्डा । दीवे दीवे तुल्ला, दुमेहला जे अ वेअड्डा ॥८५॥ [बृहत्क्षेत्रस० ५/३९]
व्या० ये इषुकारपर्वताः, ये चोत्तरकुरुषु यमकपर्वताः, ये च देवकुरूत्तरकुरुषु ह्रदप्रत्यासन्ना: 25 काञ्चनगिरयः, ये च देवकुरुषु चित्रविचित्राभिधाः पर्वताः, ये च वृत्तवैताढ्याः, ये च मेखलाद्वयकलिता भरतैरावतविजयगता वैताढ्याः, एते सर्वेऽपि द्वीपे द्वीपे तुल्याः । किमुक्तं भवति? यदेवैषां जम्बूद्वीपे परिमाणमुक्तं तदेव धातकीखण्डे पुष्करवरद्वीपाडूंऽप्यवगन्तव्यमिति ॥८५।।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International