________________
मतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
चत्तारि लक्ख छत्तीस, सहस्सा नव सया य सोलऽहिआ एषा कुरुजीवा । दोण्ह गिरीणायामो, संखित्तो तं धणू कुरूणं ॥८॥ [बृहत्क्षेत्रस. ५/८७]
व्या० चत्वारि लक्षाणि षट्त्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि ४३६९१६, एषा कुरूणां जीवा, तथाहि- भद्रशालवनदैर्घ्यपरिमाणं द्वे लक्षे पञ्चदश सहस्राणि सप्त 5 शतान्यष्टपञ्चाशदधिकानि २१५७५८, एतद् द्विगुणीक्रियते, जाताश्चतस्रो लक्षा एकत्रिंशत्सहस्राणि
पञ्च शतानि षोडशाधिकानि ४३१५१६ । एतन्मेरुपृथुत्वपरिमाणेन चतुर्नवतिशतरूपेण ९४०० सहितं क्रियते, जाताश्चतम्रो लक्षाश्चत्वारिंशत्सहस्राणि नव शतानि षोडशाधिकानि ४४०९१६, एतस्माच्छैलविष्कम्भमानं चतुस्सहस्ररूपं ४००० शोध्यते, ततः शेषं यथोक्तं कुरुजीवाप्रमाणं
भवति ४३६९१६ । सम्प्रति धनुःपृष्ठानयनाय करणमाह- दोण्हेति, द्वयोर्गजदन्ताकृत्योः 10 पर्वतयोरायाम एकत्र सङ्क्षिप्तो मीलितस्सन् यावान् भवति तत् कुरूणां देवकुरूणामुत्तरकुरूणां च प्रत्येकं धनुः धनुःपृष्ठपरिमाणं जानीहि ॥८०॥
तत्र गिरीणामायामप्रमाणमाहसोमणसमालवंता, दीहा वीसं भवे सयसहस्सा ।
तेआलीस सहस्सा, अउणावीसा य दोण्णि सया ॥८१॥ [बृहत्क्षेत्रस. ५।४८] 15 व्या० सौमनसो देवकुरूणां पूर्वदिशि, माल्यवानुत्तरकुरूणां पूर्वदिशि । एतौ द्वावपि पर्वतौ
दी? पृथग्विंशतिशतसहस्राणि त्रिचत्वारिंशत्सहस्राणि द्वे शते एकोनविंशत्यधिके २०४३२१९ ।।८१॥
सोलऽहि सयमेगं, छव्वीससहस्स सोलस य लक्खा ।
विजुप्पभो नगो गंधमायणो चेव दीहाओ ॥८२॥ [बृहत्क्षेत्रस. ५।४९] 20 व्या० विद्युत्प्रभो नगो देवकुरूणां पश्चिमदिशि, गन्धमादन उत्तरकुरूणां पश्चिमदिशि ।
एतौ द्वावपि पर्वतौ पृथग् आयामेन षोडश लक्षाः षड्विंशतिस्सहस्राणि शतमेकं षोडशाधिकम् १६२६११६ । इदं तु प्रमाणं पूर्वमेरौ द्रष्टव्यम्, पश्चिममेरौ तु यदनयोर्दैर्घ्यमानमुक्तं तत् सौमनसमाल्यवतोरवसेयम्, तयोस्तत्र सङ्कीर्णक्षेत्रव्यवस्थितत्वात्, यच्च सौमनसमाल्यवतोः र्दैर्घ्य मुक्तं तदनयोरवसातव्यम्, अनयोस्तत्र पृथुलक्षेत्रव्यवस्थितत्वात् । तदेवमुक्तं 25 गिरीणामायामपरिमाणम् ॥८२॥ [पृ०१४३] धायइवरम्मि दीवे जो विक्खंभो उ होइ उ नगाणं ।
सो दुगुणो नेयव्वो, पुक्खरद्धे नगाणं तु ॥८३॥[बृहत्क्षेत्रस. ५।३७] व्या० धायइवरम्मीत्यत्र अहवा धायइदीवे इति पाठो युक्तः, ग्रन्थेषु तथैव व्याख्यातत्वात्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org