________________
5
द्विस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् कथम्भूता ? जिनभवनविभूषिता । पुनः कथम्भूता ? दुवीसुच्च त्ति द्विविंशत्युच्चा, द्वे विंशती उच्चा द्विविंशत्युच्चा चत्वारिंशद्योजनान्युच्चेत्यर्थः । द्वादशयोजनानि मूले आदौ रुन्दा विस्तीर्णा, अष्टौ योजनानि मध्ये मध्यभागे विस्तीर्णा, चत्वारि योजनान्युपरि विस्तीर्णा इति ॥७५||
पुष्करवरद्वीपगतभरतादिक्षेत्राणां वर्षधराणां च विष्कम्भादिमानं गाथाकदम्बकेनाह[पृ०१४२] इगुयालीस सहस्सा, पंचेव सया हवंति गुणसीआ ।
तेवत्तरमंसमयं, मुहविक्खंभो भरहवासे ॥७६॥ [बृहत्क्षेत्रस० ५/१७] व्या० भरतवर्षे भरतक्षेत्रे मुखविष्कम्भोऽभ्यन्तरविष्कम्भः, कालोदधिदिशि विष्कम्भ इत्यर्थः, एकचत्वारिंशत्सहस्राणि पञ्चशतान्येकोनाशीत्यधिकानि योजनानाम् अंशानां च शतं त्रिसप्तत्यधिकम् । तथा हरिवर्षधरविहीनक्षेत्रपरिमाणरूपो ध्रुवराशिः ८८१४९२१ एकेन गुण्यते, एकेन च गुणितं तदेव भवति, ततो द्वाभ्यां द्वादशोत्तराभ्यां शताभ्यां भागो ह्रियते, लब्धं 10 यथोक्तं भरतक्षेत्रे अभ्यन्तरविष्कम्भपरिमाणं ४१५७९३७३ ॥७६॥
पन्नट्ठि सहस्साइं, चत्तारि सया हवंति छायाला । तेरस चेव य अंसा, बाहिरओ भरहविक्खंभो ॥७७॥ [बृहत्क्षेत्रस.५/२६]
व्या० भरतक्षेत्रे बाह्यो विष्कम्भः पञ्चषष्टिस्सहस्राणि चत्वारि शतानि षट्चत्वारिंशदधिकानि योजनानामंशाश्च त्रयोदश । तथाहि- ध्रुवराशिः १३८७४५६५ एकेन गुण्यते, एकेन च गुणितं 15 तदेव भवति, ततो द्वादशोत्तराभ्यां द्वाभ्यां शताभ्यां भागो ह्रियते, लब्धं यथोक्तं भरतक्षेत्रे बहिर्विष्कम्भमानं ६५४४६ १३ ॥७७॥
चउगुणिअभरहवासो विस्तरत इत्यर्थः, हिमवंते तं चउगुणं भइअं हरिवर्षमित्यर्थः । हरिवासं चउगुणिअं, महाविदेहस्स विक्खंभो ॥७८॥
व्या० भरतक्षेत्रस्यान्तर्भागे मध्यभागे बहिर्भागे च यो व्यासो विष्कम्भः स चतुर्गुणितस्सन् 20 हैमवते यथाक्रम अन्तर्मध्यबहिर्व्यासपरिमाणं भवति, तदपि च चतुर्भिर्गुणितं सत् तृतीये हरिवर्षक्षेत्रे यथाक्रममन्तर्मध्यबहिर्विष्कम्भमानं भवति, तदपि च हरिवर्षमन्तर्मध्यबहिर्विष्कम्भपरिमाणं चतुर्गुणितं सत् महाविदेहे यथाक्रममन्तर्मध्यबहिर्विष्कम्भो भवति ॥७८॥ [पृ०१४३] सत्तत्तरि सयाई चउदसअहिआई सत्तरस लक्खा ।।
होइ कुरुविक्खंभो, अट्ठ य भागा अपरिसेसा ॥७९॥ [बृहत्क्षेत्रस० ५/४२] 25 व्या० सप्त सहस्राणि सप्त शतानि चतुर्दशाधिकानि सप्तदश लक्षाः, योजनानामष्टौ च द्वादशोत्तरद्विशतभागा योजनस्य १७०७७१४८, स विष्कम्भः कुरूणां देवकुरूणामुत्तरकुरूणां च ॥७९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org