________________
७८
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे च ह्रदाः पद्महदादयो यानि च नदीनां गङ्गा-सिन्धुप्रभृतीनां कुण्डानि, तेषु कुण्डेषु च ये द्वीपा गङ्गाद्वीपादयः, एतानि सर्वाण्यपि जम्बूद्वीपगतैर्हदादिभिः सहोद्वेधोच्छ्याभ्यां तुल्यानि, विष्कम्भायामाभ्यां तु जम्बूद्वीपगतपद्महदाद्यपेक्षया द्विगुणानि, तथाहि- जम्बूद्वीप इव धातकीखण्डे पूर्वार्द्धऽपरार्धे च प्रत्येकं पद्महदादीनां हृदानां गङ्गाप्रपातकुण्डादीनां कुण्डानामुद्वेधः सर्वेषामपि 5 पृथक् पृथक् दश योजनानि १०, येऽपि च गङ्गाप्रपातकुण्डादिषु गङ्गाद्वीपादयो द्वीपास्तेऽपि प्रत्येकमुच्छ्रयेण जलमध्ये दश योजनानि १०, जलादूर्ध्वं च द्वौ द्वौ क्रोशाविति ॥७१।। [पृ०१४०] दो चंदा इह दीवे, चत्तारि अ सागरे लवणतोए । धायइसंडे दीवे, बारस चंदा य सूरा य ॥७२॥
[बृहत्क्षेत्रस० ५/७२,बृहत्सङ्ग्रहणी ६४] 10 व्या० द्वौ चन्द्रौ इह द्वीपे जम्बूद्वीपे, चत्वारः लवणनाम्नि सागरे, धातकीखण्डे द्वीपे द्वादश चन्द्राः सूर्याश्चोदयं गच्छन्ति ॥७२॥
[पृ०१४२] धातकीखण्डगतपण्डगवनशिलास्वरूपं गाथाद्वयेनाहपंडगवणम्मि चउरो, सिलाउ चउसु वि दिसासु चूलाए । चउजोयणुस्सिआओ, सव्वजुणकंचणमयाओ ॥७३॥ पंचसयायामो, मज्झे दीहत्तणऽद्धरुंदाओ । चंदऽद्धसंठिआओ, कुमुदोदरहारगोराओ ॥७४॥ [बृहत्क्षेत्रस० १।३५५-३५६]
व्या० पण्डकवने चूलिकायाश्चतसृषु पूर्वादिषु दिक्षु प्रत्येकमेकैकशिलाभावेन चतम्रोऽभिषेक शिलास्ताश्च प्रत्येकं चतुर्यो जनोच्छ्रिताः चतुर्यो जनप्रमाणबाहल्याः सर्वार्जुनकाञ्चनमय्यः सर्वश्वेतसुवर्णमय्यः पञ्चशतायामा: पञ्चयोजनशतप्रमाणायामाः मध्ये 20 दीर्घत्वार्द्धरुन्दाः । मध्यभागेऽर्द्धतृतीययोजनशतप्रमाणविष्कम्भाः चन्द्रार्द्धसंस्थिता अर्द्धचन्द्र
संस्थानसंस्थिताः कुमुदोदरहारगौराः कुमुदगर्भ-मुक्ताफलहारवद् गौर्यः । तत्र पूर्वापरदिग्भाविन्यौ शिले दक्षिणोत्तरायते पूर्वापरविस्तृते, दक्षिणोत्तरदिग्भाविन्यौ तु पूर्वापरायते दक्षिणोत्तरविस्तृते ॥७३-७४।।
[पृ०१४२] मेरुचूलास्वरूपमाह25 मरुस्स उवरि चूला, जिनभवणविभूसिआ दुवीसुच्चा ४०।
बारस य अट्ठ चउरो, मूले मज्झे उवरि रुंदा ॥७५॥
व्या० सुगमा, नवरं मेरोर्मन्दरस्योपरि चूला शिखरविशेषः, तस्याः स्वरूपमिदम्१ तुलना- बृहत्क्षेत्रसमासे गा० ३१४, ३४८, ३४९ ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org