SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ७७ द्विस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् ५, धातकीखण्डे तु पूर्वार्द्धऽपरार्द्ध च प्रत्येकममूषामष्टषष्टिसङ्ख्यानामपि नदीनां प्रवाहविष्कम्भो द्वादश योजनानि सार्द्धानि यो० १२ क्रो० २, समुद्रप्रवेशे पञ्चविंशं योजनशतम् १२५, प्रवाहे उण्डत्वं गव्यूतमेकम् क्रो० १, समुद्रप्रवेशेऽर्द्धतृतीयानि योजनानि यो० २ क्रो० २। तथा जम्बूद्वीपे रोहितांशा-रोहिता-सुवर्णकूला-रूप्यकूलानां गाहावत्यादीनां च द्वादशानां विजयान्तर्वर्तिनीनां नदीनां सर्वसङ्ख्यया षोडशनदीनां प्रत्येकं प्रवाहे विष्कम्भः सार्द्धानि द्वादशयोजनानि यो० 5 १२ क्रो० २, समुद्रप्रवेशे पञ्चविंशं योजनशतम् १२५ । प्रवाहे उण्डत्वं गव्यूतमेकम् क्रो० १, समुद्रप्रवेशेऽर्द्धतृतीयानि योजनानि यो० २ क्रो० २ । धातकीखण्डे तु पूर्वाद्धेऽपरार्द्ध च पृथक् अमू, षोडशानामपि नदीनां प्रवाहे विष्कम्भः पञ्चविंशतिर्योजनानि २५, समुद्रप्रवेशे द्वे शते पञ्चाशदधिके २५० । प्रवाहे उण्डत्वं द्वे गव्यूते क्रो० २, समुद्रप्रवेशे पञ्च योजनानि ५ । तथा जम्बूद्वीपे हरिकान्ता-हरिसलिला-नारीकान्ता-नरकान्तानां नदीनां प्रवाहे विष्कम्भ: 10 पञ्चविंशतिर्योजनानि २५, समुद्रप्रवेशेऽर्द्धतृतीयानि योजनशतानि २५०, प्रवाहे उण्डत्वं द्वे गव्यूते क्रो० २, समुद्रप्रवेशे पञ्च योजनानि ५। धातकीखण्डे तु पूर्वाद्धेऽपरार्दै च प्रत्येकममूषां चतसृणामपि नदीनां पृथक् प्रवाहे विष्कम्भः पञ्चाशद्योजनानि ५०, समुद्रप्रवेशे पञ्च योजनशतानि ५००, प्रवहे उण्डत्वमेकं योजनम् १, समुद्रप्रवेशे दश योजनानि १०, जम्बूद्वीपे शीताशीतोदयोः प्रत्येकं प्रवहे विष्कम्भः पञ्चाशद्योजनानि ५०, समुद्रप्रवेशे पञ्च योजनशतानि ५००, प्रवहे 15 उण्डत्वमेकं योजनम् १, समुद्रप्रवेशे दश योजनानि १० । धातकीखण्डे तु पूर्वार्द्धऽपराः च प्रत्येकमनयोर्नद्योः पृथक् प्रवहे विष्कम्भो योजनशतम् १००, समुद्रपवेशे योजनसहस्रम् १०००, प्रवहे उण्डत्वं द्वे योजने २, समुद्रप्रवेशे विंशतिर्योजनानि २० । तथा शीताशीतोदयोरुभयकूले समुद्रप्रवेशे यानि वनानि, तान्यपि विष्कम्भे चिन्त्यमाने जम्बूद्वीपगतशीताशीतोदयोरुभयकूलभाविवनापेक्षया द्विगुणानि द्विगुणप्रमाणानि । तथाहि- जम्बूद्वीपे 20 वनविष्कम्भो निषध-नीलसमीपे योजनस्यैक एकोनविंशतिभागः १., शीताशीतोदासमीपे योजनानामेकोनत्रिंशच्छतानि द्वाविंशत्यधिकानि २९२२, धातकीखण्डे तु पूर्वाद्धेऽपरार्द्ध च प्रत्येकं वनानां विष्कम्भो निषध-नीलसमीपे द्वौ योजनगतावेकोनविंशतिभागौ २ , शीताशीतोदासमीपे योजनानामष्टापञ्चाशच्छतानि चतुश्चत्वारिंशदधिकानि ५८४४ ॥७०॥ [पृ०१४०] धातकीखण्डगतपद्महदादिकुण्डादीनां च मानमाहवासहरकुरुसु दहा, नईण कुंडाइ तेसु जे दीवा ।। उव्वेहुस्सयतुल्ला, विक्खंभायामओ दुगुणा ॥७१॥ [बृहत्क्षेत्रस० ३/३९] व्या० धातकीखण्डे पूर्वार्द्धऽपरार्द्ध च ये वर्षधरेषु हिमवदादिषु कुरुषु देवकुरुषु उत्तरकुरुषु 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy