________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
शतानि एकाशीत्यधिकानि १५८१ । तथा भरतादिषु दीर्घवैताद्यानां भूतले विष्कम्भः पञ्चाशद्योजनानि ५०, ततो दशयोजनानामुपरि विष्कम्भस्त्रिंशद्योजनानि ३०, ततोऽपि दशयोजनानामुपरि विष्कम्भो दश योजनानि १०, ततः पञ्च योजनानामप्युपरि विष्कम्भो दश योजनानि १०, भूमौ निमग्नास्तु षड् योजनानि सक्रोशानि यो० ६ क्रो० १ | वृत्तवैताद्यानां शब्दापात्यादीनाम् 5 उच्चत्वं योजनसहस्रम् १०००, विष्कम्भो योजनसहस्रम् १०००, परिधिरेकत्रिंशद्योजनशतानि द्वाषष्ट्यधिकानि ३१६२, भूमावपि निमग्ना द्वे योजनशते पञ्चाशदधिके २५० ॥६७||
धातकीखण्डगतविद्युत्प्रभ - गन्धमादन- सौमनस- माल्यवतां गाथायुग्मेन मानमाहलक्खा यतिणि दीहा, विज्जुप्पभगंधमायणा दो वि ।
10
७६
15
छप्पण्णं च सहस्सा, दोन्नि सया सत्तवीसा य ॥ ६८ ॥ [ बृहत्क्षेत्रस० ३ / ४९ ] व्या० विद्युत्प्रभो देवकुरूणां पश्चिमदिशि, गन्धमादन उत्तरकुरूणां पश्चिमदिशि, एतौ द्वावपि पर्वतौ दैर्घ्ये पृथक् त्रीणि लक्षाणि षट्पञ्चाशत् सहस्राणि द्वे शते सप्तविंशत्यधिके ३५६२२७
॥६८॥
अउट्ठा दोन सया, उणसत्तरि सहस्स पंच लक्खा य । सोमणसमालवंता, दीहा रुंदा दस सयाई ॥ ६९ ॥ [ बृहत्क्षेत्रस० ३ / ५० ]
व्या० सोमनसो देवकुरूणां पूर्वदिशि, माल्यवान् उत्तरकुरूणां पूर्वदिशि, एतौ द्वावपि पर्वतौ आयामेन पृथक् पञ्च लक्षा एकोनसप्ततिसहस्राणि द्वे शते एकोनषष्ट्यधिके ५६९२५९ । इदं प्रमाणं पूर्वमेरौ द्रष्टव्यम्, पश्चिममेरौ तु यद्विद्युत्प्रभगन्धमादनयोर्दैर्घ्यमुक्तं तत् सौमनसमाल्यवतोः प्रतिपत्तव्यम्, तयोस्तत्र सङ्कीर्णक्षेत्रव्यवस्थितत्वात् यच्च सोमनसमाल्यवतोर्दैर्घ्यमुक्तं तद्विद्युत्प्रभगन्धमादनयोरवसेयम्, तयोस्तत्र दीर्घक्षेत्रस्थितत्वात् । रुन्दा विस्तीर्णाः पुनश्चत्वारोऽपि 20 वर्षधरसमीपे दश योजनशतानि १०००॥६९॥
तदेवमुक्तं गिरीणामायामप्रमाणम्, धातकीखण्डगतसर्वनदीमानमाहसव्वाओ वि णईओ, विक्खंभोव्वेहदुगुणमाणाओ ।
सीयासीओयाणं, वणाणि दुगुणाणि विक्खंभो ॥७०॥ [ बृहत्क्षेत्रस० ३ /४०] व्या० धातकीखण्डे द्वीपे सर्वा अपि नद्यो जम्बूद्वीपगतनद्यपेक्षया विष्कम्भे उद्वेधे च 25 द्विगुणमाना द्विगुणप्रमाणा:, तथाहि - जम्बूद्वीपे गङ्गासिन्धु-रक्तारक्तावतीसञ्ज्ञकानामष्टषष्टिसङ्ख्यानां नदीनां प्रवाहविष्कम्भः षड् योजनानि सक्रोशानि यो० ६ क्रो० १, समुद्रप्रवेशे सार्द्धानि द्वषष्टियोजनानि यो० ६२ क्रो० २ । प्रवाहे उद्वेधः क्रोशार्द्धमेकम्, समुद्रप्रवेशे पञ्च गव्यूतानि १. विक्खंभे - बृहत्क्षेत्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org