SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ द्विस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् ७५ १००० । मेरुसमीपे पुनरुभयोरपि द्वीपयोस्तेषां पृथुत्वमङ्गुलासङ्ख्येयभागः । उस्सए य तुल्ल त्ति उच्छ्रये चिन्त्यमाने पुनर्धातकीखण्डेऽमी सर्वेऽपि वर्षधरवक्षस्कारपर्वता जम्बूद्वीपवर्षधरवक्षस्कारपर्वतैस्तुल्याः, तथाहि- जम्बूद्वीप इव धातकीखण्डेऽपि पूर्वार्धे अपरार्धे च पृथक् हिमवतः शिखरिणश्चोच्छ्रयपरिमाणं योजनशतम्, महाहिमवतो रुक्मिणश्च द्वे द्वे योजनशते, निषधस्य नीलस्य चत्वारि चत्वारि योजनशतानि, चित्रादीनां षोडशानां वक्षस्काराणां वर्षधरसमीपे 5 चत्वारि चत्वारि योजनशतानि ४००, शीताशीतोदासमीपे पञ्च पञ्च योजनशतानि ५००, तथा विद्युत्प्रभादीनां चतुर्णा गजदन्ताकृतीनां पर्वतानां वर्षधरसमीपे चत्वारि चत्वारि योजनशतानि ४००, मेरुसमीपे पञ्च पञ्च योजनशतानि ५०० ॥६६॥ धातकीखण्डगतकाञ्चनगिर्यादिमानमाहकंचणगजमगसुरकुरुनगा य वेअड्ड दीहवटा य । 10 विक्खंभोव्वेहसमुस्सएण जह जंबूदीविच्चा ॥६७॥ [बृहत्क्षेत्रस० ३/४१] व्या० देवकुरुषूत्तरकुरुषु च हृदोभयपार्श्ववर्त्तिनो ये काञ्चनगिरयः, यौ चोत्तरकुरुषु यमकसझौ पर्वतौ, यौ च सुरकुरुषु देवकुरुषु नगौ चित्रविचित्राख्यौ, ये च दीर्घवैताढ्या भरतक्षेत्रादिसम्बन्धिनः, ये च वृत्तवैताढयाः शब्दापात्यादयः, एते सर्वेऽपि विष्कम्भोद्वेधसमुच्छ्रयेण यथा जम्बूद्वीपसत्का उक्तास्तथा धातकीखण्डेऽपि पूर्वार्द्धऽपराः च प्रत्येकमवगन्तव्याः । तद्यथा- जम्बूद्वीप इव 15 धातकीखण्डेऽपि पूर्वाद्धेऽपरार्द्ध च काञ्चनगिरीणां प्रत्येकमुच्चत्वं योजनशतम् १००, मूले विष्कम्भो योजनशतम् १००, मध्ये पञ्चसप्ततियोजनानि ७५, शिरसि पञ्चाशद्योजनानि ५०, भूमौ निमग्नत्वं पञ्चविंशतियोजनानि २५। तथा मूले परिधिस्त्रीणि योजनशतानि षोडशोत्तराणि ३१६, मध्ये द्वे शते सप्तत्रिंशदधिके २३७, शिरसि शतमष्टपञ्चाशदधिकम् १५८ । अन्तरे तु विशेषः, तथाहि- जम्बूद्वीपे काञ्चनगिरयो भूप्रदेशे परस्परं सम्बद्धाः, अत्र धातकीखण्डे 20 एकादशोत्तरं योजनानां शतम् एकश्च नवभागो योजनस्य १११-२ । तथाहि- ह्रदानां दैर्घ्य द्वे योजनसहस्रे २०००, काञ्चनगिरिदशकस्य च पृथुत्वं योजनसहस्रम् १०००, ततः सहस्रद्वयादेकस्मिन् सहस्रेऽपनीते शेषमवतिष्ठते सहस्रम्, दशानां चान्तराणि नव, ततः सहस्रस्य नवभिर्भागे हृते लब्धं योजनानामेकादशोत्तरं शतम् एकश्च नवभागो योजनस्य । तथा जम्बूद्वीप इव धातकीखण्डे पूर्वार्द्धऽपरार्द्ध च प्रत्येकमुत्तरकुरुषु यमकपर्वतयोर्देवकुरुषु चित्रविचित्रकूटयोः 25 पर्वतयोः पृथगुच्चत्वं योजनसहस्रम् १०००, मूले विष्कम्भो योजनसहस्रम् १०००, मध्ये सप्त शतानि पञ्चाशदधिकानि ७५०, उपरि पञ्च शतानि ५०० । तथा मूले परिधिरेकत्रिंशद्योजनशतानि द्विषष्ट्यधिकानि ३१६२, मध्ये त्रयोविंशतिशतानि द्विसप्तत्यधिकानि २३७२, शिरसि पञ्चदश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy