SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ७४ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे अडवण्णसयं तेवीस, सहस्सा दो अ लक्ख जीवाओ । दोण्ह गिरीणायामो, संखित्तो तं धणू कुरूणं ॥६५॥ [बृहत्क्षेत्रस० ३/४८] । व्या० द्वे लक्षे त्रयोविंशतिस्सहस्राणि, अष्टपञ्चाशदधिकं शतं २२३१५८, एषा कुरूणां जीवा, तथाहि- भद्रशालवनदैर्घ्यपरिमाणमेको लक्षः सप्त सहस्राण्यष्टौ शतानि एकोनाशीत्यधिकानि 5 १०७८७९, एतद् द्विगुणीक्रियते, जाते द्वे लक्षे पञ्चदश सहस्राणि सप्तशतान्यष्टपञ्चाशदधिकानि २१५७५८, एतन्मेरुपृथुत्वपरिमाणेन चतुर्नवतियोजनशतरूपेण सहितं क्रियते, जाते द्वे लक्षे पञ्चविंशतिः सहस्राणि शतमेकमष्टापञ्चाशदधिकं २२५१५८, द्वयोश्च गजदन्ताकृतिपर्वतयोर्विष्कम्भे द्वे योजनसहस्रे २०००, ते पूर्वस्माद्राशेरपनीयेते, ततो यथोक्तं कुरुजीवापरिमाणं भवति २२३१५८ । सम्प्रति धनुःपृष्ठानयनाय करणमाह- दोण्हेति, द्वयोर्गजदन्ताकृत्योः पर्वतयोः 10 आयाम एकत्र सक्षिप्तो मीलितः सन् यावान् भवति तत् कुरूणां देवकुरूणामुत्तरकुरूणां च प्रत्येकं धनुःपृष्ठपरिमाणं जानीहि ॥६५॥ धातकीखण्डगतहिमवदादिवर्षधरवक्षस्कारादिमानमाहवासहरगिरी १२ वक्खारपव्वया ३२ पुव्व-पच्छिमद्धेसु । जंबुद्दीवगदुगुणा, वित्थरओ उस्सए तुल्ला ॥६६॥ बृहत्क्षेत्रस० ३/३८] व्या० धातकीखण्डे पूर्वार्द्ध पश्चिमार्द्ध च ये वर्षधरा हिमवदादयः षट् षट् ये च वक्षस्काराश्चित्रादयः षोडश षोडश, ये च वक्षस्काराः एव विद्युत्प्रभादयो गजदन्ताश्चत्वारश्चत्वारस्ते सर्वे जम्बूद्वीपगतहिमवदादिवर्षधर-चित्रादिवक्षस्कार-गजदन्ताकारविद्युत्प्रभाद्यपेक्षया द्विगुणविस्ताराः प्रतिपत्तव्याः, तद्यथा-जम्बूद्वीपे हिमवच्छिखरिणोर्विष्कम्भः पृथग् दशयोजनशतानि द्विपञ्चाशदधिकानि योजनानां द्वादश च कलाः, १०५२-क०९। महाहिमवद्रुक्मिणोः पृथक् 20 द्विचत्वारिंशच्छतानि दशोत्तराणि योजनानां दश च कलाः, ४२१०-क०३:। निषधनीलवतोः पृथक् षोडश योजनसहस्राणि अष्टौ शतानि द्विचत्वारिंशदधिकानि द्वे च कले, १६८४२-क० १२। धातकीखण्डे पुनः पूर्वाद्धेऽपराद्धे च पृथग् हिमवच्छिखरिणोः प्रत्येकमेकविंशतिः योजनशतानि पञ्चोत्तराणि कलाश्च पञ्च, २१०५-क०६। महाहिमवद्रुक्मिणोश्चतुरशीतिर्योजनशतानि एकविंशत्यधिकानि कला चैका, ८४२१-क। निषधनीलवतोस्त्रयस्त्रिंशद्योजनसहस्राणि षट् 25 शतानि चतुरशीत्यधिकानि कलाश्चतस्रः, ३३६८४-क०५ । तथा जम्बूद्वीपे चित्रादीनां षोडशानां वक्षस्कारपर्वतानां विष्कम्भः पृथक् पञ्च योजनशतानि ५०० । धातकीषण्डे पुनस्तेषां पूर्वार्द्धऽपरार्द्ध च पृथक् योजनसहस्रं १००० । तथा जम्बूद्वीपे चतुर्णां विद्युत्प्रभादीनां गजदन्ताकृतीनां विष्कम्भः पृथक् पञ्च योजनशतानि ५००, धातकीखण्डे तु पूर्वार्द्धऽपरार्द्ध च पृथक् तेषां योजनसहस्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy