________________
७३
द्विस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् अट्ठारस य सहस्सा, पंचेव सया हवंति सीयाला । पणपन्नं अंससयं, बाहिरओ भरहविक्खंभो ॥६१॥ [बृहत्क्षेत्रस० ३/२६]
व्या० बाह्यो बहिर्भूतः, कालोददिशीत्यर्थः, धातकीखण्डे भरतक्षेत्रविष्कम्भोऽष्टादश सहस्राणि पञ्च शतानि सप्तचत्वारिंशदधिकानि योजनानामंशानां च शतं पञ्चपञ्चाशदधिकम् । तथाहि- ध्रुवराशिः एकेन गुण्यते, एकेन गुणितं तदेव भवति, ततो द्वाभ्यां द्वादशोत्तराभ्यां 5 शताभ्यां भागो ह्रियते, लब्धं यथोक्तं भरतक्षेत्रबहिर्विष्कम्भपरिमाणं १८५४७ २१२ ॥६१||
चउगुणिअ भरहवासो व्यास इत्यर्थः, हेमवए तं चउग्गुणं 'तइयं हरिवर्षमित्यर्थः । हरिवासं चउगुणिअं, महाविदेहस्स विक्खंभो ॥६२॥ [बृहत्क्षेत्रस० ३/३०]
व्या० भरतक्षेत्रस्यान्तर्भागे मध्यभागे बहिर्भागे च यो व्यासो विष्कम्भः, स चतुर्गुणितः सन् हैमवते यथाक्रममन्तर्मध्ये बहिर्व्यासपरिमाणं भवति । तदपि च चतुर्भिर्गुणितं सत् तृतीये 10 हरिवर्षक्षेत्रे यथाक्रममन्तर्मध्यबहिर्विष्कम्भमानं भवति । तदपि च हरिवर्षमन्तर्मध्यबहिर्विष्कम्भपरिमाणं चतुर्गुणितं सत् महाविदेहे यथाक्रममन्तर्मध्यबहिर्विष्कम्भो भवति ॥६२॥
सम्प्रति ऐरावतादीनामन्तर्मध्यबहिर्विष्कम्भपरिमाणमतिदेशनाह-- जह विक्खंभो दाहिणदिसाए तह उत्तरे वि वासतिए । जह पुव्वद्धे सत्त उ, तह अवरद्धे वि वासाइं ॥६३॥ [बृहत्क्षेत्रस० ३/३१] 15
व्या० यथा पूर्वार्धे मेरोदक्षिणस्यां दिशि भरत-हैमवत-हरिवर्षाणामन्तर्मध्यबहिर्विष्कम्भपरिमाणमुक्तं तथा उत्तरदिश्यपि वर्षत्रिके ऐरावत-हैरण्यवत-रम्यकरूपे यथाक्रम द्रष्टव्यम्, भरतैरावतादीनां समानविष्कम्भपरिमाणत्वात्, एतच्च प्रागेव भणितम् । तथा यथा पूर्वार्द्ध सप्त क्षेत्राणि भरतादीन्युक्तानि, तथा परार्धेऽपि सप्त भरतादीनि वर्षाणि यथोक्तपरिमाणान्यवसेयानि ॥६३॥
20 सम्प्रति धातकीखण्डगतदेवकुरूत्तरकुरूणां विष्कम्भादिमानं गाथाद्वयेनाहसत्ताणवई सहस्सा, सत्ताणउआइं अट्ठ य सयाई ।। तिन्नेव य लक्खाइं, कुरूण भागा य बाणउई ॥६४॥ [बृहत्क्षेत्रस० ३/४३]
व्या० विष्कम्भ इति, सप्तनवतिसहस्राणि, सप्तनवत्यधिकानि अष्टौ शतानि, त्रीणि लक्षाणि, द्विनवतिश्च द्वादशोत्तरद्विशतभागानां योजनस्य ३९७८९७ २२, स विष्कम्भः कुरूणां 25 देवकुरूणामुत्तरकुरूणां च ज्ञातव्यः ॥६४॥ १. तइए- बृहत्क्षेत्रसमासे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org