SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ७२ 15 वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे [पृ० १३९] सम्प्रत्यनयोरेव पूर्वार्द्धापरार्द्धयोर्मध्ये मेर्वादिवक्तव्यतामाहपुव्वद्धस्स य मज्झे, मेरू तस्स पुण दाहिणुत्तरओ । वासाइं तिणि तिणि य विदेहवासं च मज्झमि ॥५८॥ [ बृहत्क्षेत्रस० ३ / ६ ] व्या० पूर्वार्द्धस्य, चशब्दात् पश्चिमार्द्धस्य च मध्यमभागे प्रत्येकमेकैको मेरुः, तस्य 5 चैकैकस्य मेरोः प्रत्येकं दक्षिणत उत्तरतश्च त्रीणि त्रीणि वर्षाणि क्षेत्राणि हरिवर्ष - रम्यकादीनि, मध्ये चोभयत्रापि विदेहवर्षम् । इहत्यं प्रज्ञापकमपेक्ष्य यो दक्षिणस्यां दिशि इषुकाराख्यः पर्वतस्तस्य पूर्वतः प्रथमं भरतक्षेत्रम् १, ततो हिमवन्तम् २, ततोऽपि परतो हरिवर्षम् ३, ततो महाविदेहक्षेत्रम् ४, ततो रम्यकम् ५, ततो हैरण्यवतम् ६, तत ऐरावतम् ७ । तत उत्तरदिग्वर्ती द्वितीय इषुकारपर्वतः, तथाऽस्यैव दक्षिणदिग्भाविन इषुकारपर्वतस्य पश्चिमदिशि प्रथमं 10 भरतक्षेत्रम् १, ततो हैमवतम् २, ततो हरिवर्षम् ३, ततो महाविदेहवर्षम् ४, ततोऽपि परतो रम्यकम् ५, ततोऽपि हैरण्यवतम् ६, ऐरावतम् ७ । ततः स एव प्रागुक्त उत्तरदिग्भावी इषुकारः पर्वतः ॥५८॥ सम्प्रति भरतादिक्षेत्राणामेव संस्थानमाह अरविवरसंठिआई, चउ लक्खा आययाइं खेत्ताइं । दीर्घतया, अंतो संखित्ताई, रुंदयराई कमेण पुणो ॥ ५९ ॥ [ बृहत्क्षेत्रस० ३ / ७] व्या० क्षेत्राणि भरतादीनि अरविवरसंस्थितानि, अरकाश्चक्रावयवास्तेषां विवराणि तद्वत् संस्थितानि, तथाहि- चक्रनाभिस्थानीयौ जम्बूद्वीप- लवणोदधी, अरकस्थानीया वर्षधरपर्वताः, ततो या वर्षधराणामपान्तरालवर्त्तीनि वर्षाणि तान्यरकविवराणीव प्रतिभान्ति । तानि च प्रत्येकं चतस्रो लक्षा आयतानि दीर्घाणि, तथा अरविवराणीव अंतर्लवणदिशि विष्कम्भमधिकृत्य 20 सङ्क्षिप्तानि सङ्कीर्णानि, तदनन्तरं पुनः क्रमेण मात्रया २ रुन्दतराणि विस्तीर्णतराणि ॥५९॥ भरहे मुहविक्खंभो, छावट्ठि सयाइं चोद्दसऽहिआई । अउणत्तीसं च सयं, बारसऽ हिअदुसयभागाणं || ६० || [ बृहत्क्षेत्रस० ३ / १३] व्या० भरते भरतक्षेत्रे मुखविष्कम्भो अभ्यन्तरविष्कम्भः षट्षष्टिः शतानि चतुर्दशाधिकानि योजनानामेकोनत्रिंशं च शतं द्वादशोत्तरद्विशतभागानां योजनस्य । तथाहि - चतुर्दशलक्षादिकः 25 पूर्वोक्तो ध्रुवराशिध्रियते १४०२२९७ । ततो यावत्तावता एकेन गुण्यते, एकेन च गुणितं तदेव भवति । ततो द्वाभ्यां द्वादशोत्तराभ्यां शताभ्यां भागो हियते, लब्धं यथोक्तं भरतक्षेत्रे मुखविष्कम्भपरिमाणं ६६१४ १२९ २१२ Jain Education International ॥६०॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy