________________
द्विस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम्
पल्योपमासङ्ख्येयभागहीनं पल्योपमं द्रष्टव्यम्, तथा च जीवाभिगमे स्त्रियमधिकृत्योक्तम् - हेमवयहेरण्णवयअकम्मभूमिगमणुस्सित्थीणं भंते ! केवइअं कालं ठिई पण्णत्ता ? गोअमा ! जहन्नेणं देसूणं पलिओवमं पलिओवमस्स असंखेजइभागेणं ऊणगं, उक्कोसेणं एगं पलिओवमं [जीवाभि० २१५५] इति । वज्रर्षभं वज्रर्षभनाराचसझं संहननं येषां ते वज्रर्षभनाराचसंहननाः, उपलक्षणमेतत्, तेनानुलोमवायुवेगाः कङ्ककुक्षिपरिमाणाः समचतुरस्रसंस्थानाः सुरूपास्तद्यथा-सुप्रतिष्ठितकूर्मचारु- 5 चरणाः सुकुमारश्लक्ष्णप्रविरलरोमकुरुविन्दवृत्तजङ्घायुगला निगूढसुबद्धसन्धिजानुप्रदेशाः करिकरसमवृत्तोरवः कण्ठीरवसदृक्षकटिप्रदेशाः शक्रायुधसममध्यभागाः प्रदक्षिणावर्त्तनाभिमण्डलाः श्रीवत्सलाञ्छितविशालमांसलवक्षःस्थला: पुरपरिघानुकारिदीर्घबाहवः सुश्लिष्टमणिबन्धा रक्तोत्पलपत्रानुकारिशोणिमपाणिपादतलाश्चतुरङ्गुलप्रमाणसमवृत्तकम्बुग्रीवाः शारदशशाङ्कसोमवदनाश्छत्राकारशिरसोऽस्फुटितस्निग्धकान्तिश्लक्ष्णमूर्द्धजाः कमण्डलु-कलश-यूप-स्तूप-वापी-छत्र- 10 ध्वज-पताका-सौवस्तिक-यव-मत्स्य-मकर-कूर्म-रथ-वरस्थाल-शुका-ऽष्टापदाङ्कुश-प्रतिष्ठ-मयूरश्रीदामा-ऽभिषेकतोरण- मे दिनी-जलधि-वरभवना-ऽऽदर्श-पर्वत-गज-वृषभ-सिंहचामररूपप्रशस्तोत्तमद्वात्रिंशल्लक्षणधराः, स्त्रियोऽपि सुजातसर्वाङ्गसुन्दर्यः समस्तमहेलागुणसमन्विताः संहताङ्गुलिदलपद्मसुकुमारकूर्मसंस्थानमनोहारिचरणाः रोमरहितप्रशस्तलक्षणोपेतजङ्घायुगला निगूढसन्धिमांसलजानुप्रदेशाः कदलीस्तम्भनिभसंहतसुकुमारपीवरोरुका वदनायामप्रमाण- 15 द्विगुणमांसलविशालजघनधारिण्यः स्निग्धकान्तिसुविभक्तश्लक्ष्णरोमराजयः प्रदक्षिणावर्त्ततरङ्गभङ्गुर- . नाभिमण्डलाः प्रशस्तलक्षणोपेतकुक्षयः सङ्गतपार्थाः कनककलशोपमसमसहिताऽत्युन्नतवृत्ताकृतिपीवरपयोधराः सुकुमारबाहुलतिकाः सौवस्तिक-शङ्ख-चक्राधाकृतिरेखालङ्कृतपाणिपादतलाः वदनविभागोच्छ्रितमांसलकम्बुग्रीवाः विकसितकुवलयपत्रायतकान्तलोचना आरोपितचापपृष्ठाकृतिसुसङ्गभ्रूलताकाः प्रमाणोपपन्न-ललाटपट्टकाः सुस्निग्धकान्तश्लक्ष्णशिरोरुहाः 20 पुरुषेभ्यः किञ्चिदूनोच्छ्रयाः स्वभावत उदारशृङ्गारचारुवेषाः प्रकृत्यैव हसितभणितिविलासविषयपरमनैपुण्योपेताः । तथा मनुष्या मनुष्यश्च स्वभावत एव सुरभिवदनाः प्रतनुक्रोधमानमायलोभाः सन्तोषिणो निरौत्सुक्या मार्दवार्जवसम्पन्नाः सर्वथाऽपगतवैरानुबन्धाः हस्त्यश्वकरभगोमहिषादिसद्भावेऽपि तत्परिभोगपराङ्मुखाः पादविहारिणो ज्वरादिरोग-यक्षभूतपिशाचादिग्रहमारिव्यसनोपनिपातविकलाः । तथा अहमिंद त्ति सर्वेऽपि मनुष्यास्तत्राहमिन्द्राः, परस्परप्रेष्यप्रेषक- 25 भावरहितत्वात् । तथा तत्रत्यानां मनुष्याणां पृष्ठकरण्डकानि चतुःषष्टिसङ्ख्याकानि भवन्ति, चतुर्थस्य च भक्तस्योर्ध्वम् एकोपवासातिक्रमे इत्यर्थः, आहार आहारग्रहणम्, स चाहारो न शाल्यादिधान्यनिष्पन्नः, किन्तु पृथिवीमृत्तिका कल्पद्रुमाणां पुष्पफलानि च, तथाहि- जायन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org