________________
६८ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे हरिवर्षा दिक्षेत्राऽनन्तगुणविशिष्टानुभावम्, इत्थम्भूतं च सुषमसुषमानुभावमनुभवतां मनुष्याणामपत्यगोपना स्वापत्यपरिपालना एकोनपञ्चाशद्दिनानि, तत ऊर्ध्वं काश-जृम्भादिव्याजेन मरणमुपगम्य दिवमुपसर्पन्ति । तथा तेषां तत्रत्यानां मनुष्याणामाहार आहारग्रहणमष्टमभक्तस्योर्ध्वम्, उपवासत्रयातिक्रमे इत्यर्थः ॥४०-४१॥
[पृ०१३०] हरिवर्षरम्यकक्षेत्रयुग्मधर्मिकस्वरूपं गाथायुग्मेनाहहरिवासरम्मएसुं, आउपमाणं सरीरउस्सेहो । पलिओवमाणि दोण्णि उ, दोण्णि अ कोसुस्सिआ भणिआ ॥४२॥ छट्ठस्स य आहारो, चउसट्ठिदिणाणि पालणा तेसिं ।
पिट्ठकरंडाण सयं, अट्ठावीसं मुणेअव्वं ॥४३॥ [बृहत्क्षेत्रस० २५५-२५६] 10 व्या० हरिवर्ष-रम्यकयोः क्षेत्रयोः पुनः, तुशब्दः पुनरर्थे, मनुष्याणामायुःप्रमाणं शरीरस्य
चोत्सेधो यथाक्रमं सदा द्वे पल्योपमे द्वौ च क्रोशौ भणितौ तीर्थकरादिभिः, आयुःप्रमाणं चेदमुत्कर्षतो द्रष्टव्यम्, जघन्यतः पुनढे पल्योपमे पल्योपमासङ्ख्येयभागहीने, तथा च स्त्रियमधिकृत्य जीवाभिगमसूत्रम्- हरिवासरम्मगवासअकम्मभूमिगमणुस्सित्थीणं भंते ! केवइअं कालं ठिई पण्णत्ता? गोयमा ! जहन्नेणं देसूण्णाई दो पलिओवमाइं पलिओवमासंखिजभागेणं ऊणगाई, उक्कोसेणं दो 15 पलिओवमाइं । [जीवाभि० २।५५] तथा षष्ठस्य भक्तस्योर्ध्वमुपवासद्वयातिक्रमे इत्यर्थः आहार
आहारग्रहणम् । तथा तेषां हरिवर्ष-रम्यकभाविनां मनुष्याणां जन्मानन्तरं मातापितृभ्यां पालना क्रियते चतुःषष्टिर्दिनानि, तत ऊर्ध्वं तौ मातापितरौ क्षुतादियोगेन मरणमुपगम्य देवलोकमुपसर्पतः। तथा तेषां मनुष्याणां पृष्ठकरण्डकानां शतमष्टाविंशत्यधिकं ज्ञातव्यम् । शेषं संहननादिकं
पूर्ववद्वक्तव्यम्, नवरं हैमवतहैरण्यवतवर्षापेक्षयाऽत्र मनुष्याणामुत्थान-बल-वीर्यादिकं कल्पपादपाना20 मास्वादो भूमेर्माधुर्यमित्येवमादिका भावाः पर्यायानधिकृत्यानन्तगुणा ज्ञातव्याः ॥४२-४३।।
[पृ०१३०] हैमवतहैरण्यवतवर्षगतयुगलिकस्वरूपं गाथायुगलकेनाहगाउअमुच्चा पलिओवमाउणो वज्जरिसहसंघयणा । हेमवएरण्णवए, अहमिंदनरा मिहुणवासी ॥४४॥
चउसट्ठी पिट्ठिकरंडयाण, मणुआण तेसिमाहारो । 25 भत्तस्स चउत्थस्स उ, उणसीइदिणाणुपालणया ॥४५॥ [बृहत्क्षेत्रस० २५३-२५४]
व्या० हैमवते हैरण्यवते च वर्षे प्रत्येकं नरा मनुष्या मिथुनवासिनः, मिथुनं स्त्रीपुरुषयुग्मम्, तद्रूपतया वसन्तीति, एवंशीला मिथुनवासिनो गव्यूतमुच्चा: क्रोशपरिमाणशरीरोच्छ्यास्तथा पल्योपमायुषः पल्योपममायुर्येषां ते तथा । इदं चोत्कर्षत आयुःप्रमाणमुक्तम्, जघन्यतः पुनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org