________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे वेअड्डमालवंते, विजुप्पहनिसढनीलवंते अ । नव नव कूडा भणिआ, एकारस सिहरिहिमवंते ॥३३॥ [बृहत्क्षेत्रस० १३२]
व्या० वैताढ्येषु विजयभरतैरावतसत्केषु चतुस्त्रिंशत्सङ्ख्येषु माल्यवति विद्युत्प्रभे निषधे नीलवति च, प्रत्येकं नव नव कूटानि भणितानि तीर्थकरगणधरैः, शिखरिणि क्षुल्लहिमवति 5 च पुनः प्रत्येकं एकादशैकादश कूटानि ॥३३॥ [पृ०१२१] रुप्पिमहाहिमवंते सोमणसे गंधमायणनगे य ।
अट्ठऽ? सत्त सत्त य, वक्खारगिरीसु चत्तारि ॥३४॥ [बृहत्क्षेत्रस० १३३] व्या० इहाद्ये पादत्रये यथासङ्ख्येन सङ्ख्या-संङ्ख्येयपदयोजना, सा चैवं-रुक्मिणि वर्षधरपर्वते महाहिमवति च प्रत्येकमष्टावष्टौ कूटानि, सौमनसे गन्धमादने च पर्वते प्रत्येक 10 सप्त सप्त, वक्षस्कारगिरिषु पुनः षोडशस्वपि प्रत्येकं चत्वारि चत्वारि कूटानि । एतानि च
कूटानि सर्वाण्यपि प्रत्येकमेकैकया पद्मवरवेदिकया वनखण्डेन च समन्ततः परिक्षिप्तानि । तदेवमुक्तानि सङ्ख्यामात्रमधिकृत्य कूटानि ॥३४॥
[पृ०१२२] इह च हिमवदादिषु षट्सु वर्षधरेषु क्रमेणैते पद्मादयः षडेव ह्रदास्तद्यथापउमे य महापउमे, तिगिच्छी केसरी दहे चेव । हरए महपुंडरिए, पुंडरीए चेव य दहाओ ॥३५॥ [बृहत्क्षेत्रस० ५६८] व्याख्या सुगमैव ॥३५॥ [पृ०१२२] पद्मह्रदादिवासिनीनां देवीनामायुःस्थित्यादिस्वरूपं गाथाद्वयेनाहअद्भुट्ठ अद्धपंचम, पलिओवम असुरजुअलदेवीणं । सेसवणदेवयाणं, देसूणं अद्धपलिअमुक्कोसं ॥३६॥
[बृहत्सङ्ग्रहणी ६, प्रवचनसारो० ११३९] व्या० सार्द्धानि त्रीणि, अर्द्धं पञ्चमं येषु तान्यर्द्धपञ्चमानि, सार्द्धचत्वारीत्यर्थः, पल्योपमानि असुरयुगलस्य चमरेन्द्र-बलीन्द्रलक्षणस्य देव्यस्तासामायुरिति शेषः । कोऽर्थः ? चमरेन्द्रदेवीनां सार्द्धानि त्रीणि पल्योपमान्यायुः, बलीन्द्रदेवीनां सार्द्धानि चत्वारि पल्योपमानि, शेषाणां
नागकुमाराद्यधिपतीनाम् उत्तरदिग्वर्त्तिनां तथा वण त्ति वनचराणां व्यन्तराणाम् उत्तर-दक्षिण25 दिग्वर्तिनां चशब्दाद्दक्षिणदिग्भाविनागकुमाराद्यधिपतीनां च सम्बन्धिनीनां देवीनां यथाक्रमम्
उत्कृष्टमायुर्देशोनपल्योपमम्, दक्षिणदिग्भाविनागकुमाराद्यधिपतिदेवीनां दक्षिणोत्तरदिग्भाविव्यन्तराधिपतिदेवीनां चोत्कृष्टमायुरर्द्धं पल्योपममिति ॥३६॥ गीतिरार्येयम् ॥ १. णे कूडा-बृहत्क्षेत्रसमासे ।।
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org