SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ द्विस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् तथा अङ्गुलासङ्ख्यभागम् अङ्गुलासङ्ख्येयभागमात्रं विस्तीर्णाः । एकैकश्च वक्षस्कारो गिरिरुभयोः पार्श्वयोः प्रत्येकमेकैकया पद्मवरवेदिकया एकैकेन च वनखण्डेन परिक्षिप्तः ॥ २९ ॥ वक्खारपव्वयाणं, आयामो तीस जोअणसहस्सा । दोन य सया णवऽहिआ, छच्च कलाओ चउन्हं पि ||३०|| [ बृहत्क्षेत्रस० २५९ ] व्या० चतुर्णामपि विद्युत्प्रभादीनां वक्षस्कारपर्वतानामायामः प्रत्येकं त्रिंशत्सहस्राणि । द्वे 5 शते नवोत्तरे योजनानां षट् चैकोनविंशतिभागरूपाः कलाः ३०२०९ ॥३०॥ [पृ०१२०] वैताढ्यस्वरूपमाह पंणवीसं उव्विद्धो, पन्नासं जोअणाणि विच्छिन्नो । वेडो रययमओ, भारहखेत्तस्स मज्झम्मि ||३१|| [ बृहत्क्षेत्रस० १७८] व्या० भरतक्षेत्रमध्ये वैताढ्यो नाम पर्वतः द्वे अर्द्धे भरतक्षेत्रस्य करोतीति वैताढ्यः 10 पृषोदरादयः [३।२।१५५] इति वचनतो रूपनिष्पत्तिः, यदि वा वैताढ्यनामा देवस्तत्र पल्योपमस्थितिको महर्द्धिक आधिपत्यं पालयति, तेन तद्योगाद्वैताढ्य इत्युच्यते, उक्तं च- से केणऽट्टेणं भंते! एवं वच्च वेअड्डे पव्वए वेअड्ढे पव्वए ? गोअमा ! वेअड्डे पव्वए भरहवासं दुहा भयमाणे चिट्ठ तं जहा - दाहिणभरहद्धं उत्तरभरहद्धं च वेअड्डनामगे अ एत्थ देवे महिड्डिए जाव पलिओवमट्ठिइए परिवसति, सेणऽट्टेणं गोअमा ! एवं वुच्च वेअड्डे पव्वते वेअड्ढे पव्वते [ ] इति । स च 15 रजतमयो रूप्यमयः पञ्चविंशतियोजनान्युद्विद्ध उच्चः, सक्रोशानि षड् योजनानि भूमाववगाढः पञ्चाशद्योजनानि विस्तीर्णः । तस्य च वैताढ्यपर्वतस्य दक्षिणपार्श्वे उत्तरपार्श्वे च प्रत्येकं पद्मवरवेदिका वनखण्डश्च । तत्रैकैका पद्मवरवेदिका द्वे गव्यूते उच्छ्रिता पञ्च धनुःशतानि विस्तीर्णा वैताढ्यप्रमाणा, एकैकोऽपि च वनखण्डो देशोने द्वे योजने विस्तीर्ण आयामतो वैताढ्यपरिमाणः ॥३१॥ [पृ०१२१] सूत्राणां गतिवैचित्र्यमाह कत्थइ देसग्गहणं, कत्थइ घेप्पंति निरवसेसाई । ६५ Jain Education International उक्कमकमजुत्ताइं, कारणवसओ निउत्ताइं ||३२|| [विशेषाव० ३८८ ] व्या० क्वापि सूत्रे देशस्यैकपक्षलक्षणस्य ग्रहणम्, क्वचित्सूत्रे निरवशेषाण्यपि पक्षान्तराणि गृह्यन्ते । अपरञ्च, कानिचित् सूत्राणि कुतोऽपि कारणवशादुत्क्रमयुक्तानि निबद्धानि दृश्यन्ते, 25 कानिचित्तु क्रमयुक्तानीत्येवं विचित्रा सूत्रगतिः ||३२|| [पृ०१२१] यत्र यावन्ति कूटानि तत्र तन्मानं गाथाद्वयेनाह १. पणवीसइमुव्विद्धो- बृहत्क्षेत्रसमासे ॥ For Private & Personal Use Only 20 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy