________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे महाहिमवन्तौ पुनवपि प्रत्येकं द्विशतोच्चौ योजनशतद्वयमुच्चौ, वर्णमधिकृत्य पुनर्यथाक्रमं रुक्म श्वेतहेम, कनकं पीतं सुवर्णम्, तन्मयौ । किमुक्तं भवति ? श्वेतसुवर्णमयो रुक्मी, पीतसुवर्णमयो महाहिमवान्, केचित् पुना रुक्मिपर्वतं रुक्ममयम् इच्छन्ति अपरे महाहिमवन्तं सर्वरत्नमयम्
॥२५॥ 5 चत्तारि जोअणसए, उव्विद्धा निसढनीलवंता य ।
निसहो तवणिज्जमओ, वेरुलिओ नीलवंतगिरी ॥२६॥ [बृहत्क्षेत्रस० १३१]
व्या० निषधनीलवन्तौ वर्षधरपर्वतौ द्वावपि प्रत्येकं चत्वारि योजनशतान्युद्विद्धौ उच्चौ, तत्र वर्णमधिकृत्य निषधस्तपनीयमय आरक्तच्छायः सुवर्णमयः, नीलवन्नामा च
गिरिर्वैडूर्यरत्नमयः । एतेषां षण्णामपि वर्षधरपर्वतानां प्रत्येकमुभयोः पार्श्वयोरेकैका पद्मवरवेदिका, 10 एकैकश्च वनखण्डः । तथाहि-क्षुल्लहिमवान् दक्षिणस्मिन्नपि पार्श्वे पद्मवरवेदिकावनखण्डाभ्यां परिक्षिप्त उत्तरस्मिन्नपि पार्श्वे, एवं सर्वेऽपि वर्षधरा भावनीयाः ॥२६॥
उस्सेहचउन्भागो, ओगाहो पायसो नगवराणं । वट्टपरिही उ तिगुणो, किंचूणछब्भायजुत्तो अ ॥२७॥
[पृ०११९] चतुर्णां वक्षस्काराणां गाथात्रयेण स्वरूपमाह15 वासहरगिरंतेणं, रुंदा पंचेव जोअणसयाई ।
चत्तारि सय उव्विद्धा, ओगाढा जोयणाण सयं ॥२८॥ [बृहत्क्षेत्रस० २६०]
व्या० वर्षधरगिर्यन्ते वर्षधरपर्वतसमीपे रुंदा विस्तीर्णाः पञ्च योजनशतानि, किमुक्तं भवति ? निषधसमीपे विद्युत्प्रभ-सौमनसौ नीलवतः समीपे गन्धमादन-माल्यवन्तौ प्रत्येकं पञ्च
योजनशतानि विस्तीर्णाविति । तथा चत्वारोऽपि वर्षधरपर्वतसमीपे प्रत्येकं चत्वारि 20 योजनशतान्युद्विद्धा उच्चाः अवगाढा भूमावन्तः प्रविष्टाः पुनः प्रत्येकं योजनानामेकं शतम्,
तदनन्तरं च मात्रया विष्कम्भतः परिहीयमानाः परिहीयमाना उत्सेधावगाढा(हा?)भ्यां परिवर्द्धमानाः परिवर्द्धमानास्तावदवसेया यावन्मेरोस्समीपम् ॥२८।।
ततस्तत्रोच्चत्वादिपरिमाणमाहपंच सए उव्विद्धा, ओगाढा पंच गाउयसयाई । अंगुलअसंखभागो, विच्छिन्ना मंदरतेणं ॥२९॥ [बृहत्क्षेत्रस० २६१]
व्या० मन्दरान्ते मन्दरगिरिसमीपे चत्वारोऽपि वक्षस्कारगिरयः प्रत्येकं पञ्च योजनशतानि उद्विद्धा उच्चाः । अवगाढा: भूमौ निमग्नाः पञ्च गव्यूतशतानि, पञ्चविंशतियोजनशतमित्यर्थः। १. 'ता वि-बृहत्क्षेत्रसमासे ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org