SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ द्विस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् हेमवए पंचऽहिआ इगवीस संया उ पंच य कलाओ । दस हि बायाल सया, दस य कलाओ महाहिमवे ||२२|| [बृहत्क्षेत्रस० ३०] व्या० पञ्चाधिकान्येकविंशतिशतानि योजनानामेकोनविंशतिभागरूपाश्च कलाः पञ्च, एतावद्धैमवतक्षेत्रविष्कम्भमानम्, तथाहि - स एव जम्बूद्वीपविष्कम्भो योजनलक्षमानो हैमवतक्षेत्रविष्कम्भानयनाय चतुर्भिर्गुण्यते, जाताश्चतम्रो लक्षास्तासां नवत्यधिकेन शतेन भागहरणम्, 5 लब्धानि एतावन्त्येव । दशाधिकानि द्विचत्वारिंशच्छतानि योजनानां दश चैकोनविंशतिभागरूपाः कलाः, एतावत्परिमाणो महाहिमवतो विष्कम्भः । तथाहि - महाहिमवन्नगविष्कम्भानयनाय जम्बूद्वीपविष्कम्भो योजनलक्षप्रमाणोऽष्टाभिर्गुण्यते, जाता अष्टौ लक्षास्तासां नवत्यधिकेन शतेन भागे हते लब्धानि दशाधिकानीत्यादि ॥२२॥ हरिवासे इगवीसा, चुलसीइ सया कला य एक्का य । सोलस सहस्स अट्ठसय, बायाला दो कला निसढे ||२३|| [ बृहत्क्षेत्रस० ३१] व्या० हरिवर्षक्षेत्रे एकविंशत्यधिकानि चतुरशीतिशतानि योजनानामेका चैकोनविंशतिभागरूपा कला, तथाहि - हरिवर्षक्षेत्रविष्कम्भानयनाय जम्बूद्वीपविष्कम्भो योजनलक्षप्रमाणः षोडशभिर्गुण्यते, जातानि षोडश लक्षाणि तेषां नवत्यधिकेन शतेन भागहरणम्, लब्धान्येतावन्त्येव । षोडश सहस्राण्यष्टौ शतानि द्विचत्वारिंशदधिकानि अपरे चैकोनविंशतिभागरूपे द्वे कले, एतावन्निषधपर्वतविष्कम्भपरिमाणम्, तथाहि - निषधपर्वतस्य विष्कम्भानयनाय जम्बूद्वीपविष्कम्भो लक्षप्रमाणो द्वात्रिंशता गुण्यते जाता द्वात्रिंशल्लक्षाः, तासां नवत्यधिकेन शतेन भागो हियते, लब्धमेतावदेव ॥२३॥ ६३ Jain Education International For Private & Personal Use Only 10 [पृ०११८] तेत्तीसं च सहस्सा, छच्च सया जोयणाण चुलसीया । चउरो अ कला सकला, महाविदेहस्स विक्खंभो ||२४|| [बृहत्क्षेत्रस० ३२] 20 व्या० त्रयस्त्रिंशत्सहस्राणि षट् शतानि चतुरशीत्यधिकानि चत्वारश्चैकोनविंशतिभागाः, एतावत्परिमाणो महाविदेहानां विष्कम्भः, तथाहि - महाविदेहक्षेत्रविष्कम्भानयनाय जम्बूद्वीपविष्कम्भो योजनलक्षप्रमाणश्चतुःषष्ट्या गुण्यते, जाताश्चतुःषष्टिर्लक्षास्तासां नवत्यधिकेन शतेन भागहरणे लब्धमेतावदेव ॥२४॥ जोअणसयमुव्विद्धा, कणगमया सिहरिचुल्लहिमवंता । रुप्पिमहाहिमवंता, दुसउच्चा रुप्पकणगमया ||२५|| [ बृहत्क्षेत्रस० १३०] व्या० योजनशतमुद्विद्धौ उच्चौ, कनकमयौ पीतसुवर्णमयौ शिखरि - क्षुल्लहिमवन्तौ, १. सयाइ - बृहत्क्षेत्रसमासे ॥ २. अउणावीसइ भागा, चउरो य विदेहविक्खंभो - इति बृहत्क्षेत्रमा रुक्मि 15 25 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy