________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे द्विको द्विकश्चतुष्कश्चतुष्कोऽष्टौ शून्यानि २२४४०००००००० । अस्य वर्गमूलानयने लब्धश्चतुष्कस्सप्तकस्त्रिकस्सप्तकः शून्यम् अष्टकः ४७३७०८, शेषस्तु राशिरुद्धरति सप्तकस्त्रिकः शून्यं सप्तकः त्रिकः षट्कः ७३०७३६ । छेदराशिनवकश्चतुष्कः सप्तकश्चतुष्क एककः षट्कः ९४७४१६ । ततः कलार्द्धानयनार्थमुद्धरितो राशिर्द्विकेन गुण्यते छेदराशिना च भज्यते, ततो 5 लब्धमेकं कलार्द्धम् । वर्गमूललब्धस्य तु कलाराशेर्योजनानयनार्थम् एकोनविंशत्या भागो ह्रियते,
लब्धानि योजनानां चतुर्विंशतिः सहस्राणि नव शतानि द्वात्रिंशदधिकानि २४९३२ एकं च कलार्द्धम् ॥१९॥
[पृ०११७] अथो हिमवतः परिधिमाह
पणयालीस सहस्सा, सयमेगं नव य बारस कलाओ । 10 अद्धकलाए हिमवंतपरिरओ सिहरिणो चेवं ॥२०॥
व्या० पञ्चचत्वारिंशत् सहस्राः योजनानां शतमेकं च नव च योजनानि, योजनस्यैकोनविंशतिकला: क्रियन्ते, एवंविधा द्वादश कला: कलार्द्धं च, अयं हिमवतः परिधिः। सिहरिणो चेवं ति शिखरिणोऽप्येवमेव परिरयो ज्ञातव्यः ॥२०॥
[पृ०११७] अत्र भरतमानं सामान्यतो गाथार्द्धनोक्तमपि साम्प्रतं भरतक्षुल्लहिमवदादीनां 15 विष्कम्भादिस्वरूपं पंच सए इत्यत आरभ्य उस्सेह इत्यन्तेन गाथासप्तकेनाह
पंच सए छव्वीसे, छच्च कला वित्थडं भरहवासं । दससयबावन्नऽहिआ, बारस य कलाओ हिमवंते ॥२१॥ [बृहत्क्षेत्रस० २९]
व्या० पञ्च शतानि षड्विंशत्यधिकानि, योजनस्यैकोनविंशतिः कलाः क्रियन्ते, एवंविधाः षट् कलाः, एतावद्विस्तारं भरतवर्षम्, तथाहि-जम्बूद्वीपस्य विष्कम्भो योजनलक्षम्, तदेकेन 20 गुण्यते, एकेन च गुणितं तदेव भवतीति जातमेकमेव लक्षम्, तस्य नवत्यधिकेन शतेन भागो ह्रियते, लब्धानि योजनानां पञ्च शतानि षड्विंशत्यधिकानि, शेषस्य राशेश्छेदराशिगतेन शून्येन सह शून्यस्यापवर्त्तना क्रियते, लब्धा एकोनविंशतिभागरूपाः कलाः षट्, एतावत्परिमाणो भरतक्षेत्रस्य विष्कम्भो विस्तार इति । दश योजनशतानि द्विपञ्चाशदधिकानि,
कलाश्चैकोनविंशतिभागरूपा द्वादश, एतावान् विष्कम्भः क्षुल्लहिमवद्वर्षधरे, तथाहि-जम्बूद्वीपस्य 25 विष्कम्भो योजनलक्षप्रमाणं क्षुल्लहिमवद्वर्षधरविष्कम्भानयनाय द्विकेन गुण्यते, जाते द्वे लक्षे,
तयोर्नवत्यधिकेन शतेन भागो ह्रियते, लब्धानि दश योजनशतानि द्विपञ्चाशदधिकानि, कलाश्च द्वादश ॥२१॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org