SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ar द्विस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् तथा तस्याः जम्ब्वाः स्कन्धः कन्दादुपरितन: शाखाप्रभवपर्यन्तो विभागो द्वे योजने उद्विद्ध उच्चः, द्वौ क्रोशौ विस्तीर्णः । या तु दिक्प्रसृतशाखामध्यभागप्रभवा ऊर्ध्वगतशाखा विडिमाऽपरपर्याया सा षड् योजनान्युच्चस्त्वेन, अत एव कन्दादारभ्य सर्वाग्रेण सा जम्बूरष्टौ योजनान्युच्चस्त्वेन प्रागुक्ता, स्कन्धगताभ्यां द्वाभ्यां योजनाभ्यां विडिमागतै : षभिर्योजनैर्योजनाष्टकभावात् । तस्याश्च जम्ब्वातश्चतसृष्वपि दिक्षु शाखाः, किमुक्तं भवति ? 5 चतसृषु पूर्वादिषु दिक्षु प्रत्येकमेकैका शाखा, ताश्च शाखाः प्रत्येकं क्रोशोनानि चत्वारि योजनानि दीर्घाः, तथाहि-तस्या जम्ब्वा विष्कम्भोऽष्टौ योजनानि, तत्र स्कन्धगतस्योपरितनभागस्य द्वौ क्रोशौ, तत एकैकस्याः शाखायाः पृथुत्वं क्रोशोनानि चत्वारि योजनानि भवन्ति, तत्र तासु चतसृषु शाखासु मध्ये पूर्वस्यां शाखायां बहुमध्यदेशभागेऽनादृतस्य अनादृताभिधानस्य देवस्य योग्यं महदेकं भवनम्, तच्च सर्वरत्नमयमनेकमणिमयस्तम्भशतसन्निविष्टं क्रोशप्रमाणमायामतो 10 विष्कम्भतोऽर्द्धक्रोशं देशोनं क्रोशमुच्चस्त्वेन, तस्य च भवनस्य त्रीणि द्वाराणि, तद्यथा-एकं द्वारं पूर्वस्यामेकमुत्तरत एकं दक्षिणतः । तानि च द्वाराणि प्रत्येकं पञ्च धनुःशतान्युच्चस्त्वेनाऽर्द्धतृतीयानि धनुःशतानि विष्कम्भतः, तत्र च भवने बहुमध्यदेशभागे महत्येका मणिमयी पीठिका, सा च पञ्चधनु:शतायामविष्कम्भाऽर्द्धतृतीयधनुःशतबाहल्या । तस्याश्च मणिपीठिकाया उपरि महदेकं शयनीयम् । शेषासु च तिसृषु शाखासु प्रासादा: प्रासादावतंसकाः, एकैकस्यां 15 शाखायामेकैकः प्रासादावतंसक इत्यर्थः, तेऽपि च प्रासादावतंसकाः सर्वरत्नमयाः, तेषु च प्रासादेषु मध्ये सिंहासनानि रम्याणि नानामणिमयतया रमणीयानि । किमुक्तं भवति ? एकैकस्य प्रासादावतंसकस्य मध्ये पञ्चधनुःशतायामविष्कम्भा अर्द्धतृतीयधनुःशतबाहल्या मणिमयपीठिका, तासां च मणिमयपीठिकानामुपरि प्रत्येकमनादृतदेवयोग्यं सर्वरत्नमयं सिंहासनमिति ॥१६-१८॥ [पृ०११७] क्षुल्लहिमवज्जीवामानमाह 20 चउवीस सहस्साई, णव य सया जोअणाण बत्तीसे । चुल्लहिमवंतजीवा, आयामेणं कलद्धं च ॥१९॥ [बृहत्क्षेत्रस० ५२] व्या० योजनानां चतुर्विंशतिः सहस्राणि नव शतानि द्वात्रिंशानि द्वात्रिंशदधिकानि, एकं च कलार्द्धम्, इत्येतावत्परिमाणाऽऽयामेन पूर्वापरतया दैट्रंण क्षुल्लहिमवतो जीवा, तथाहिजम्बूद्वीपविष्कम्भः कलारूप एकोनविंशतिलक्षप्रमाणोऽवगाहने क्षुल्लहिमवतः सम्बन्धिना 25 त्रिंशत्सहस्रपरिमाणेन ३०००० इषुणा हीनः क्रियते, ततो जातं शेषमिदम्-अष्टादश लक्षाः सप्ततिः सहस्राणि १८७०००० । एतद् यथोक्तपरिमाणेन ३०००० अवगाहेन गुण्यते जातः पञ्चकः षट्क एककोऽष्टौ शून्यानि ५६१०००००००० । एष राशिभूयश्चतुर्भिर्गुण्यते, जातो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy