SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ६० वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे व्या० चतुर्दश सहस्राणि पञ्च शतानि अष्टाविंशत्यधिकानि योजनानाम्, कलाश्चैकादश, एतावत्परिमाणमुत्तरार्द्धस्य धनुःपृष्ठम्, तथाहि- उत्तरभरतार्द्धस्येषुः कलारूपः सहस्रदशकरूपो वर्ग्यते, वर्गितश्च सन् जात एककोऽष्टौ च शून्यानि १००००००००, एष भूयः षड्भिर्गुण्यते, जात: षट्कोऽष्टौ च शून्यानि ६००००००००, एष राशिरुत्तरभरतार्द्धस्य सम्बन्धिनि जीवावर्गे 5 सप्तकः पञ्चकः षट्कोऽष्टौ शून्यानि ७५६०००००००० इत्येवंरूपे प्रक्षिप्यते, ततो जातो राशिरेवंरूपः सप्तकः षट्को द्विकोऽष्टौ शून्यानि ७६२००००००००, अस्य वर्गमूलानयने लब्धो द्विकः सप्तकः षट्कः शून्यं चतुष्कस्त्रिक: २७६०४३, शेषस्तु राशिरुद्धरति द्विकः षट्को द्विक एककः पञ्चक एकक: २६२१५१, छेदराशिः पञ्चकः पञ्चको द्विकः शून्यमष्टकः षट्कः ५५२०८६, वर्गमूललब्धस्तु कलाराशिर्योजनकरणार्थमेकोनविंशत्या भज्यते, लब्धानि योजनानां 10 चतुर्दश सहस्राणि पञ्च शतानि अष्टाविंशत्यधिकानि कलाश्चैकादश १४५२८ क० ११ ॥१४॥ [पृ०११६] देवकुरूत्तरकुरूणां विष्कम्भमानं जीवामानं चाहअट्ठ सया बायाला, एक्कारस सहस दो कलाओ अ । विक्खंभो अ कुरूणं, तेवन्न सहस्स जीवा सिं ॥१५॥ [बृहत्क्षेत्रस० २६३] व्या० देवकुरूणामुत्तरकुरूणां च प्रत्येकं विष्कम्भो दक्षिणोत्तरतया विस्तारो योजनानामेकादश 15 सहस्राणि अष्टौ शतानि द्विचत्वारिंशदधिकानि द्वे चैकोनविंशतिभागरूपे कले ११८४२२ । तथा सिं ति आसां देवकुरूणामुत्तरकुरूणां च प्रत्येकं या जीवा पूर्वापरायता सा त्रिपञ्चाशद्योजनसहस्राणि ५३००० ॥१५॥ [पृ०११६] जम्बू-शाल्मल्योः स्वरूपं गाथात्रयेणाहरयणमया पुप्फफला, विक्खंभो अट्ठ अट्ठ उच्चतं । जोअणमद्धव्वेहो, खंधो दो जोअणुव्विद्धो ॥१६॥ दो कोसे वित्थिन्नो, विडिमा छज्जोअणाणि जंबूए । चाउदिसि पि साला, पुग्विल्ले तत्थ सालम्मि ॥१७॥ भवणं कोसपमाणं, सयणिज्जं तत्थऽणाढिअसुरस्स । तिसु पासाया सालेसु, तेसु सीहासणा रम्मा ॥१८॥ [बृहत्क्षेत्रस०२८६-२८८] 25 व्या० तस्या जम्ब्वाः पुष्पाणि फलानि च रत्नमयानि नानारत्नात्मकानि, तस्याः सशाखाकायाः जम्ब्वाः पृथुत्वमष्टौ योजनानि, अष्टावेव योजनान्युच्चत्वम्, क्रोशद्विकमुद्वेधो भूमध्ये प्रवेशः, अत एव सर्वाग्रेण सा जम्बूः सातिरेकाण्यष्टौ योजनान्युच्चस्त्वेन भवति । १. कोसदुगं उब्वेहो-इति बृहत्क्षेत्रसमासे ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy