________________
द्विस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् सर्ववैडूर्यरत्नमयः, तेनासौ नीलमणियोगान्नीलवानिति व्यपदिश्यते, शेषं पूर्ववक्तव्यतावत् ।
तथा रुक्मं रूप्यम्, शब्दानामनेकार्थत्वात्, तद्यस्यास्तीति रुक्मी, अत्र नित्ययोगलक्षणमधिकृत्येन् प्रत्ययः, स हि पर्वतो रूप्यमयः शाश्वतिक इति नित्ययोगे इन् प्रत्ययः, अन्यत् पूर्ववदेव।
तथा शिखराणि कूटान्यस्य सन्तीति शिखरी, यदिवा शिखरिणः पादपास्तदाकाराणि 5 सर्वरत्नमयानि कूटानि वर्त्तन्त इति तेन तद्योगाच्छिखरी, अग्रेतनं पूर्ववक्तव्यतावत् ॥१२॥
[पृ०११४] उत्तरभरतार्द्धस्य जीवामानमाहचउदस य सहस्साइं, सयाई चत्तारि एगसयराई । भरहद्भुत्तरजीवा, छा य कला ऊणिया किंचि ॥१३॥ [बृहत्क्षेत्रस०४९]
व्या० चतुर्दश सहस्राणि चत्वारि शतानि एकसप्तत्यधिकानि षट् च कला: 10 एकोनविंशतितमभागरूपाः किञ्चिदनाः, इत्येतावत्परिमाणा उत्तरभरतार्धजीवा, तथाहिउत्तरभरतार्धस्येषुपरिमाणं कलारूपं दश सहस्राणि, तेन जम्बूद्वीपविष्कम्भः कलारूप एकोनविंशतिलक्षप्रमाण ऊनः क्रियते, जातं शेषमष्टादश लक्षा नवतिसहस्राणि १८९००००, एतच्च यथोक्तपरिमाणेषुणा १०००० गुण्यते, गुणिते च सति जात एककोऽष्टकः नवकः शून्यानि चाष्टौ १८९००००००००, एष राशिभूयश्चतुर्भिर्गुण्यते, जातः सप्तकः पञ्चकः षट्कोऽष्टौ च 15 शून्यानि ७५६०००००००० । अस्य वर्गमूलानयने लब्धो द्विकस्सप्तकश्चतुष्को नवकः पञ्चकश्चतुष्कः २७४९५४, शेषमुद्धरति द्विको नवकस्सप्तकोऽष्टकोऽष्टकश्चतुष्क: २९७८८४, छेदराशिस्तु पञ्चकश्चतुष्को नवको नवकः शून्यमष्टौ ५४९९०८, वर्गमूललब्धस्य तु कलाराशेर्योजनानयनार्थमेकोनविंशत्या भागो ह्रियते, लब्धानि योजनानां चतुर्दश सहस्राणि चत्वारि शतानि एकसप्तत्यधिकानि कलाश्च पञ्च १४४७१ क०५, उद्धरितशेषकलाराश्यपेक्षया 20 च किञ्चिदूनैककला लभ्यते, इति तदपेक्षया छच्च कला ऊणिया किंचीत्युक्तम् ॥१३॥
[पृ०११४] गाथाढेन भरतविष्कम्भमानमाहपंच सए छव्वीसे, छच्च कला वित्थडं भरहवासं । [बृहत्क्षेत्रस.२९] गार्थाद्धम् ।
व्या० पञ्च शतानि योजनानां षड्विंशत्यधिकानि, षट् च कला एकोनविंशतितमभागरूपाः, एतावद्विस्तृतं भरतवर्ष भरतक्षेत्रमित्यर्थः ॥
[पृ०११४] साम्प्रतमुत्तरभरतार्द्धस्यैव धनुःपृष्ठमाहचोद्दस य सहस्साइं, पंचेव सयाइं अट्ठवीसाई । एगारस य कलाओ, धणुपिटुं उत्तरद्धस्स ॥१४॥ [बृहत्क्षेत्रस० ५०]
25
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org