________________
५८ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
__ तथा रम्यते क्रीड्यते नानाविधैः कल्पपादपैः सुवर्णमणिखचितैश्च तैस्तैः प्रदेशैरतिरमणीयतया रतिविषयतां नीयत इति रम्यम्, रम्यमेव रम्यकम्, शेषं पूर्ववत् । तथा रुक्मी शिखरी च, एतौ द्वावपि पर्वतौ यथाक्रमं रूप्य-सुवर्णमयौ, यच्च यन्मयं तत्र तद्विद्यते, हिरण्यं सुवर्णमिति
चानान्तरम्, ततो हिरण्यं सुवर्णं विद्यते यस्यासौ हिरण्यवान् शिखरी पर्वतस्तस्येदं हैरण्यवतम्, 5 तथाहि- तद् द्वाभ्यामपि रुक्मिशिखरिभ्यां पर्वताभ्यां यथाक्रममुभयोर्दक्षिणोत्तररूपयोः पार्श्वयोः
कृतसीमाकम्, ततो भवति हिरण्यवतः शिखरिणोऽपि सम्बन्धीति हैरण्यवतम्, यदिवा हिरण्यं जनेभ्य आसनप्रदानादितया प्रयच्छति, अथवा दर्शनमनोहारितया तत्र प्रदेशे हिरण्यं जनेभ्यः प्रकाशयति, तथाहि- बहवस्तत्र मिथुनकमनुष्याणामुपवेशन-शयनादिरूपोपभोगयोग्याः कनकमयाः
शिलापट्टकाः सन्ति । पश्यन्ति च ते मिथुनकमनुष्यास्तत्र प्रदेशे मनोहारिणो हिरण्यमयान्निवेशान्, 10 ततो हिरण्यं प्रशस्यं नित्ययोगि चास्यास्तीति हिरण्यवत्, हिरण्यवदेव हैरण्यवतम्, स्वार्थेऽण्प्रत्ययः,
शेषं पूर्ववत् । तथा ऐरावते क्षेत्रे ऐरावतनामा देवः पल्योपमस्थितिकः परिवसति, तेन तद्योगादैरावतमपि तत् प्रसिद्धम् । से केणऽटेणमिति पूर्ववत् ॥११॥
[पृ०११४] वर्षधरपर्वतानां यथार्थानि नामानि विवृण्वन्नाह
हिमवंत १ महाहिमवंत २, पव्वया निसढ ३ नीलवंता ४ य । 15 रुप्पी ५ सिहरी ६ एए, वासहरगिरी मुणेयव्वा ॥१२॥ [बृहत्क्षेत्रस० २४]
व्या० एते गाथायामुपन्यस्ता वर्षधराः वर्षधररूपा गिरयः पर्वता ज्ञातव्याः, कस्कः? इत्याह-हिमवान् पदैकदेशे पदसमुदायोपचारात् क्षुल्लहिमवान् महाहिमवान् निषधो नीलवान् रुक्मी शिखरी, एते च षडपि वर्षधरपर्वताः प्रज्ञापकापेक्षया क्रमेण व्यवस्थिता वेदितव्याः, तथाहि
एतत्क्षेत्रनिवासिनं प्रज्ञापकमपेक्ष्योत्तरतः प्रथमो वर्षधरः क्षुल्लहिमवान्, तदनन्तरं महाहिमवान्, 20 ततो निषधः, तदनन्तरं नीलवान्, ततो रुक्मी, ततः परं शिखरी ।
सम्प्रति नाम्नां यथार्थता भाव्यते- तत्राद्ये वर्षधरे पर्वते महाहिमवन्तमचलं प्रणिधाय विष्कम्भायामोद्वेधोच्चस्त्वपरिरयाः क्षुल्लास्तेन क्षुल्लहिमवान्, यदिवेति पूर्ववत् । तथा क्षुल्लहिमवन्नामानं प्रथमं वर्षधरमपेक्ष्य द्वितीये वर्षधरपर्वते आयाम-विष्कम्भोद्वेधोच्चस्त्व-परिरया अतीव महत्तरा
इति महाहिमवान्, अग्रे पूर्ववक्तव्यतैव । 25 तथा नितरां सहते स्कन्धे पृष्ठे वा समारोपितं भारमिति निषधो वृषभः,
पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तत्र तृतीये वर्षधरपर्वते भूयांसि निषधाकाराणि कूटानि वर्तन्ते, यदिवेति पूर्ववत् ।
तथा नीला वैडूर्याख्या मणयो भूयांसो यत्र स नीलवान्, तथाहि- चतुर्थो वर्षधरपर्वतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org