________________
द्विस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् स्यादेतत्-अमूनि भरतादीनि नामानि क्षेत्राणां प्रवृत्तानि किञ्चिन्निमित्तमपेक्ष्याहोश्विद्यथा कथञ्चित् ?, उच्यते-किञ्चिन्निमित्तमपेक्ष्य, तथाहि- अस्मिन् क्षेत्रे भरतनामा देवः पल्योपमस्थितिको महाद्युतिबलविभवसम्पन्न आधिपत्यं परिपालयति, ततस्तद्योगादिदं भरतमिति व्यपदिश्यते । यश्चास्य भरतक्षेत्रस्याधिपतिरुत्पद्यते देवः तत्सम्बन्धिभिरिन्द्रसामानिकैर्देवैर्भरतो भरत इति गीयते तत्स्थितिप्रतिपादके कल्पपुस्तकेऽभिधानात् ततो भरतदेवयोगत: प्रवाहतोऽनादिसन्ततिपतितं 5 भरतमिति नामास्य क्षेत्रस्य । न चैतदनार्षम्, यत उक्तमागमे- से केणऽटेणं भंते ! भरहे वासे २ इति ?। गोअमा ! भरहे देवे महड्डिए महजुइए जाव पलिओवमट्टिईए परिवसइ, से एएणऽटेणं गोअमा ! एवं वुच्चइ भरहे वासे भरहे वासे [जम्बूद्वीपप्र० ३५४,१२६] इति । तथा हिमवतोरिदं हैमवतम्, तथाहि-क्षुल्लहिमवतो महाहिमवतश्चापान्तराले तत् क्षेत्रम्, ततो द्वाभ्यामपि ताभ्यां यथाक्रमम् उभयोर्दक्षिणोत्तररूपयोः पार्श्वयोः कृतसीमापर्यन्तमिति भवति तयोः सम्बन्धि, यदिवा 10 हेम सुवर्णम्, तज्जनेभ्य आसनप्रदानादितया प्रयच्छति, अथवा दर्शनमनोहारितया सततं जनेभ्यो हेम प्रकाशयति, तथाहि-बहवस्तत्र युगलधार्मिकाणां मनुष्याणाम् उपवेशन-शयनादिरूपोपभोगयोग्या: कनकमयाः शिलापट्टकाः सन्ति पश्यन्ति च ते युगलधार्मिकास्तत्र तत्र प्रदेशे मनोहारिणो हेममयान् निवेशान्, ततो हेम प्रभूतं प्रशस्यं नित्ययोगि वा अस्यास्तीति हेमवत्, हेमवदेव वा हैमवतं, इति प्रज्ञादेराकृतिगणतया प्रज्ञादिभ्यः [पा० ५।४।३८] इति स्वार्थेऽण् प्रत्ययः, शेष 15 पूर्ववत् आलापकपर्यन्तं सर्वत्र वाच्यम्, नवरं क्षेत्रनाम्ना देवो वाच्यः ।
तथा हरिशब्देन सूर्य उच्यते शीतांशुश्च, तत्र केचिन्मनुष्या हरिरिव सूर्य इव अरुणाभासाः केचित् पुनर्हरिरिव शीतांशुरिव श्वेताः शङ्खदलसन्निकाशाः, ततस्तद्योगात् क्षेत्रं हरय इति व्यपदिश्यते, हरयश्च तद्वर्षं च हरिवर्षम्, शेषं पूर्ववत् । विशेषस्तूच्यते- यदा च मनुष्ययोगाद् हरिशब्दः क्षेत्रे वर्त्तते तदा स्वभावाद् बहुवचनान्तः, यदाह तत्त्वार्थमूलटीकाकृद् गन्धहस्ती- 20 हरयो विदेहाश्च पञ्चालादितुल्या: [तत्त्वार्थसिद्ध० ३।१०] इति ।।
___ तथा महान् अतिशयेन विकृष्टो गरीयान् देहः शरीरमाभोग इति यावत्, येषां ते महाविदेहाः, तथाहि-भरतैरावत-हैमवत-हैरण्यवत-हरिवर्ष-रम्यकवर्षापेक्षया महान्तावस्य क्षेत्रस्यायामविष्कम्भौ। प्रतीतश्चायमर्थः प्रवचनवेदिनाम्, तत् क्षेत्रं महाविदेहाः । अथवा महान् अतिशयेन विकृष्टो गरीयान् देहः शरीरं कलेवरं येषां ते महाविदेहास्तत्रत्या मनुष्याः, तथाहि- तत्र विजयेषु सर्वेष्वपि 25 सर्वदैव पञ्चधनु:शतप्रमाणोच्छ्रया देवकुरूत्तरकुरुषु तु त्रिगव्यूतोच्छ्रया मनुष्यास्ततो महाविदेहमनुष्ययोगात्तदपि क्षेत्रं महाविदेहाः । महाविदेहशब्दश्च स्वभावाद्बहुवचनान्तः एतच्च प्रागेवोक्तम्, ततो बहुवचनेन व्यवह्रियते, दृश्यते क्वचिदेकवचनान्तोऽपि, तदपि प्रमाणम्, पूर्वमहर्षिभिस्तथा प्रयोगकरणात्, शेषं पूर्ववत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org