________________
५६
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
षड् बाह्यं तपःअणसणमूणोअरिआ, वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ [दशवै०नि० ४७, प्रवचनसारो०२७०]
कथम्भूते तपसि ? कुशलदृष्टे, कुशला: पण्डितास्तैर्दृष्टे, अग्लान्या ग्लानिं वर्जयित्वा 5 अनाजीवी आजीवो जीवनं वार्ता [अभिधान० ८६५] इत्यभिधानकोशाद् आजीवा आजीविका,
न आजीवो यस्यास्ति अनाजीवी यस्य तपसा आजीविका नास्ति, बहव आजीविकानिमित्तं तपः कुर्वन्ति सिंधजीवत्, तत् तपस्तपआचारो न भवति, किन्तु आजीविकादिकारणं विना ग्लानिवर्जितो द्वादशविधं तपः करोति स तपआचारो विज्ञेयः ॥८॥
वीर्याचारस्तु ज्ञानादिष्वेव शक्तेरगोपनं तदनतिक्रमश्चेति, उक्तं च10 अणिगूहिअबलविरिओ, परक्कमइ जो जहुत्तमाउत्तो ।
झुंजइ अ जहाथाम, नायव्वो वीरिआयारो ॥९॥ [पञ्चाशक०१५।२७]
व्या० अगोपितस्वशक्तिस्तपोवैयावृत्यकरणादौ यो यस्यातिचारस्तं प्रतिक्रामेत्, यत् यथास्थानं तत्तथास्थानं युनक्ति, अत्र यत् पातकं यथा कृतं तत् प्रायश्चितविशुद्ध्या तपो-मूल-पाराञ्चिकादिभिः
शोधयतीत्यर्थः । इति वीर्याचारो ज्ञातव्यः ॥९॥ 15 [पृ०११३] निरुपक्रमायुष्मत आह
देवा नेरइआ वि अ, असंखवासाउआ य तिरिमणुआ । उत्तमपुरिसा य तहा, चरमसरीरा य निरुवक्कमा ॥१०॥
व्या० देवाश्चतुर्निकायिकाः, नैरयिका नारकाः, असङ्ख्यवर्षायुष्का नर-तिर्यञ्चो युगलिन इत्यर्थः, उत्तमपुरुषाश्चरमशरीराश्च निरुपक्रमाः सप्तभिरप्युपक्रमैस्तेषामायुषोऽनुपक्रमणात् ॥१०॥ 20 [पृ०११४] भरतादिक्षेत्राणां नामानि सार्थकानि विवृण्वन्नाह
भरहं हेमवयं ति अ, हरिवासं ति अ महाविदेहं ति । रम्मयमेन्नवयं, एरवयं चेव वासाइं ॥११॥ [बृहत्क्षेत्रसमासे २३]
व्या० भरतं हैमवतम्, इतिशब्दो नाम स्वरूपमात्रप्रदर्शने, चः समुच्चये, हरिवर्षं महाविदेहं रम्यकं हैरण्यवतम् एरावतमिति वर्षाणि । अमूनि च वर्षाणि प्रज्ञापकापेक्षया क्रमेण व्यवस्थितानि, 25 तद्यथा-इदं प्रत्यक्षत उपलभ्यमानं भरतक्षेत्रम्, तत उत्तरत एतदनन्तरं हैमवतं क्षेत्रम्, ततः परं
हरिवर्षम्, ततोऽप्यनन्तरं महाविदेहक्षेत्रम्, तदनन्तरं रम्यकम्, ततः परं हैरण्यवतम्, ततोऽपि पर्यन्ते एरावतमिति । १. हेरन्नवयं एरा-इति बृहत्क्षेत्रसमासे ॥ २. यत्र यत्र बृहत्क्षेत्रसमासगाथाया विवरणं तत्र प्रायः जिनभद्रगणिक्षमाश्रमणविरचितबृहत्क्षेत्रसमासस्य मलयगिरिसूरिविरचितवृत्तेरनुसन्धानं कर्तव्यम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org