SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ द्विस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् ५५ विचिकित्सा मतिविभ्रमः युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहस्तदभावो निर्विचिकित्सम्, यद्वा विद्वज्जुगुप्सा मलमलिना एते इत्यादि साधुजुगुप्सा, तदभावो निर्विद्वज्जुगुप्सम्, तत एषां द्वन्द्वः, पुल्लिँङ्गनिर्देशश्च प्राकृतत्वात् ।३। तथा अमूढा तपो-विद्याऽतिशयादिकुतीर्थिकर्द्धिदर्शनेऽप्यमोहसद्भावादविचलता, सा च सा दृष्टिश्च सम्यग्दर्शनम् अमूढदृष्टिः । अथवा निर्गताः शङ्कितादिभ्यो ये ते निःशङ्कित-निष्काक्षित-निर्विचिकित्सा जीवाः । अमूढा दृष्टिरस्येत्येवममूढ- 5 दृष्टिश्च जीव एव, तत एते धर्मधर्मिणोरभेदोपचाराद् दर्शनाचारभेदा भवन्तीति ।४। तथा उपबृंहणम् उपबृंहा समानधार्मिकाणां क्षामणा-वैयावृत्यादिसद्गुणप्रशंसनेन तत्तद्गुणवृद्धिकरणम् । स्थिरीकरणं तु धर्माद्विषीदतां तत्रैव चारुवचनचातुर्यादवस्थापनम्, उपबृंहा च स्थिरीकरणं च उपबृंहास्थिरीकरणे ।५-६। तथा वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्र वात्सल्यं समानदेवगुरुधर्माणां भोजन-निवसन-दानोपकारादिभिस्सम्माननम्, प्रभावना धर्मकथा प्रतिवादिनिर्जय-दुष्करतपश्चरण- 10 करणादिभिर्जिनप्रवचनप्रकाशनम् । यद्यपि च प्रवचनं शाश्वतत्वात्तीर्थकरभाषितत्वाद्वा सुरासुरनमस्कृतत्वाद्वा स्वयमेव दीप्यते, तथापि दर्शनशुद्धिमात्मनोऽभीप्सुर्यो येन गुणेनाधिकः स तेन तत् प्रवचनं प्रभावयति, यथा-भगवदार्यवज्रस्वामिप्रभृतिक इति । एतेऽष्टौ दर्शनाचाराः, साम्प्रतं चारित्राचारानाह पणिहाणजोगजुत्तो, पंचहिं समिईहिं तिहिं गुत्तीहिं ।। एस चरित्तायारो, अट्ठविहो होइ नायव्वो ॥७॥ [पञ्चाशक०१५।२५,प्रवचनसारो०२६९] व्या० प्रणिधानं चेतःस्वास्थ्यम्, तत्प्रधाना योगा व्यापारा: प्रणिधानयोगास्तैर्युक्तः समन्वितो यः साधुः पञ्चभिः समितिभिस्तिसृभिर्गुप्तिभिः कृत्वा, अथवा सुपां सुपो भवन्ती [ ]ति वचनात् सप्तम्यर्थे तृतीया, ततः पञ्चसु समितिषु तिसृषु गुप्तिषु विषये एता आश्रित्य प्रणिधानयोगयुक्तो यः स एष चरणाचार आचाराचारवतोः कथञ्चिदभेदादिति यो जीव 20 इति शेषः । एष चरित्राचारोऽष्टविधो भवतीति ज्ञातव्यः ॥७॥ नोचारित्राचारस्तपआचारप्रभृतिः, तत्र तपआचारो द्वादशधा, उक्तं च बारसविहम्मि वि तवे, सभिंतरबाहिरे कुसलदिढे । अगिलाए अणाजीवी, नायव्वो सो तवायारो ॥८॥ [पञ्चाशक० १५।२६] व्या० द्वादशविधे द्वादशप्रकारे तपसि आभ्यन्तरबार्बी, षडाभ्यन्तरं तपःपायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि अ अभिंतरो तवो होइ ॥ [दशवै०नि० ४८, प्रवचनसारो०२७१] 15 25 १. चाटु-इति प्रवचनसारोद्धारवृत्तौ ।। २. तुलना-प्रवचनसारोद्धारवृत्तिःगा. २६९ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy