SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे काले १ विणए २ बहुमाणु ३ वहाणे ४ तहा अनिन्हवणे ५ । वंजण ६ अत्थ ७ तदुभए ८, अट्ठविहो नाणमायारो ॥५॥ [प्रवचनसारो० २६७, पञ्चाशक० १५।२३, दशवै० नि० १८४, निशीथ० ८] व्या० काले कालविषये, ज्ञानाचारो भवतीति सर्वत्र सम्बन्धः, तत्र यो यस्याङ्गप्रविष्टादेः 5 श्रुतस्य काल उक्तस्तस्य तस्मिन्नेव स्वाध्यायः कार्यः, नान्यदा, प्रत्यवायसम्भवात्, दृश्यते च लोकेऽपि कृष्यादेः कालकरणे फलम्, विपर्यये तु विपर्यय इति, यत उक्तम् कालम्मि कीरमाणं, किसिकम्मं बहुफलं जहा भणियं । इय सव्व च्चिय किरिया, नियनियकालम्मि कायव्वा ॥१॥ [पञ्चाशक० ४।४] इति। विणए त्ति विनये विनयविषये ज्ञानस्य ज्ञानिनां ज्ञानसाधनानां च पुस्तकादीनामुपचाररूपः, 10 यतो विनयेनाऽऽसनदाना-ऽऽदेशकरणादिना पठनीयम्, न पुनरविनयेनाऽऽसनदानाद्यकरणेन ।२। तथा बहुमाणे बहुमान: प्रीतिस्तद्विषये, यतो बहुमानेनैवान्तरचित्तप्रमोदलक्षणेन पठनादि विधेयम्, न पुनर्बहुमानाभावेन ।३। तथा उवहाणे त्ति उप समीपेऽधीयते क्रियते सूत्रादिकं येन तपसा तदुपधानं तपोविशेषस्तद्विषये, यद्यस्य अध्ययनोद्देशकादेस्तप उक्तं तत्तपः कृत्वैव तस्य पाठादिकं विधेयम्, नान्यथेति ।४। तथा अनिह्नवणे त्ति, तथाशब्दः समुच्चये, निह्नवनम् अपलपनम्, 15 न निह्नवनम् अनिह्नवनम्, तद्विषये, यतोऽनिह्नवेनैव पाठादि सूत्रे विधेयम्, न पुनर्मानादिवशादात्मनो लाघवाद्याशङ्कया श्रुतगुरूणां श्रुतस्य चापलापेनेति ।५। तथा वंजणअत्थतदुभए इति, व्यञ्जनानि ककारादीनि, अर्थोऽभिधेयम्, तदुभयं च व्यञ्जनार्थयोरुभयम्, ततः समाहारद्वन्द्वस्तद्विषये, कोऽर्थः ? व्यञ्जनविषये अर्थविषये तदुभयविषये च ज्ञानाचारत्रयं भवति, एतत्त्रयानन्यथाकरणेन सम्यगुपयोगेन च ततः सूत्रादि पठनीयम्, नान्यथा । अत्र व्यञ्जनग्रहणमुपलक्षणम्, स्वरा अपि द्रष्टव्याः । 20 एवमष्टविधोऽष्टप्रकारो ज्ञानस्य श्रुतज्ञानस्याचारो ज्ञानाराधनतत्पराणां व्यवहार इति ॥५॥ अथ दर्शनाचारभेदानाह - निस्संकिय १ निक्कंखिय २, निवितिगिच्छा ३ अमूढदिट्ठी ४ य । उववूह ५ थिरीकरणे ६, वच्छल्ल ७ पभावणे ८ अट्ठ ॥६॥ - [पञ्चाशक० १५।२४, प्रवचनसारो० २६८,दशवै०नि० १८२, निशीथ० २३] व्या० शङ्कितं शङ्का सन्देहस्तस्याभावो निःशङ्कितम्, दर्शनस्य सम्यक्त्वस्य आचार इति, एवमन्यत्रापि ।१। तथा काक्षितं काङ्क्षा अन्यान्यदर्शनग्रहस्तदभावो निष्काक्षितम् ।२। तथा 25 १. विनयविषयः विनय एव वा-इति पञ्चाशकवृत्तौ ॥ २. ध्रियते-इति प्रवचनसारोद्धारवृत्तौ ।। ३. सूत्रादेर्विइति प्रवचनसारोद्धारवृत्तौ ।। ४. तुलना-प्रवचनसारोद्धारवृत्तिः गा. २६८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy