________________
द्विस्थानकें तृतीयोद्देशकटीकागतगाथाविवरणम्
वासकानि चेत्यर्थः । पटुतरं च श्रोत्रविज्ञानम्, गन्धादिद्रव्याणि तु विपरीतानि - स्तोक - बादराऽभावुकानि यतोऽतस्तानि स्पर्शानन्तरमात्मप्रदेशैर्मिश्रीकृतानि स्पृष्टबद्धानि गृह्यन्ते घ्राणादिभिः, पटुतरविज्ञानानि च न भवन्ति, यतो घ्राणादिकरणानीति गाथात्रयार्थः । यद्यपि परमगुरुभिः श्रीमदभयदेवसूरिभिर्गाथार्द्धमेव लिखितम्, परमावाभ्यां गाथात्रयं विशेषावश्यकभाष्याल्लिखितम्
11311
Jain Education International
५३
[पृ०१०७] पुढं सुणेइ सद्दं, रूवं पुण पासइ अपुट्ठे तु ।
गंधं रसं च फासं च बद्धपुट्ठे विआगरे ॥४॥ [विशेषाव० ३३६ ] व्या० श्रोत्रेन्द्रियं कर्त्तृ शब्दं कर्मतापन्नं शृणोति । कथम्भूतम् ? इत्याह-स्पृश्यत इति स्पृष्टस्तं स्पृष्टं तनौ रेणुवदालिङ्गितमात्रमेवेत्यर्थः । इदमुक्तं भवति - स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रमुपलभते, यतो घ्राणेन्द्रियादिविषयभूतद्रव्येभ्यस्तानि सूक्ष्माणि बहूनि भावुकानि च, पटुतरं 10 च श्रोत्रेन्द्रियं विषयपरिच्छेदे घ्राणेन्द्रियादिगणादिति । श्रोत्रेन्द्रियस्य चेह कर्त्तृत्वं शब्दश्रवणान्यथाऽनुपपत्तेर्लभ्यते, एवं घ्राणेन्द्रियादिष्वपि वाच्यम् । तानि पुनः कथं गन्धादिकं गृह्णन्तीत्याह-गन्ध्यत इति गन्धः, तमुपलभते घ्राणेन्द्रियम्, रस्यत इति रसस्तं च गृह्णाति रसनेन्द्रियम्, स्पृश्यत इति स्पर्शस्तं च जानाति स्पर्शनेन्द्रियम् । कथम्भूतं गन्धादिकम् ? इत्याहबद्धस्पृष्टम्, तत्र स्पृष्टमिति पूर्ववदेव, बद्धं तु गाढतरमाश्लिष्टम्, आत्मप्रदेशैस्तोयवदात्मीकृत- 15 मित्यर्थः । ततश्च गन्धादिद्रव्यसमूहं प्रथमं स्पृष्टम् आलिङ्गितम्, ततश्च स्पर्शनानन्तरं बद्धम् आत्मप्रदेशैर्गाढतरमागृहीतमेवोपलभते घ्राणेन्द्रियादिकम्, इत्येवं व्यागृणीयात् प्ररूपयेत् प्रज्ञापकः, यतो घ्राणेन्द्रियादिविषयभूतानि गन्धादिद्रव्याणि शब्दद्रव्यापेक्षया स्तोकानि बादराण्यभावुक च, विषयपरिच्छेदे श्रोत्रापेक्षयाऽपटूनि च घ्राणादीनि, अतो बद्धस्पृष्टमेव गन्धादिद्रव्यसमूहं गृह्णन्ति, न पुनः स्पृष्टमात्रमिति भावः ।
ननु यदि स्पर्शनानन्तरं बद्धं गृह्णाति तर्हि पुट्ठबद्धमिति पाठो युक्त इति चेदुच्यतेविचित्रत्वात् सूत्रगतेरित्थं निर्देशः, अर्थतस्तु यथा त्वयोक्तं तथैव तद् द्रष्टव्यम् । अपरस्त्वाहयद् बद्धं तत् स्पृष्टं भवत्येव, विशेषबन्धे सामान्यबन्धस्यान्तर्भावात् ततः किं स्पृष्टग्रहणेनेति, तदयुक्तम्, सकलश्रोतृसाधारणत्वाच्छास्त्रारम्भस्य प्रपञ्चितज्ञाऽनुग्रहार्थमर्थापत्तिगम्यार्थाभिधानेऽप्यदोषादिति । चक्षुरिन्द्रियं त्वप्राप्तमेव विषयं गृह्णातीत्याह - रूवं पुण पास अपुट्ठे 25 तु इति, रूपं कर्मतापन्नं चक्षुरस्पृष्टमप्राप्तमेव पश्यति, पुनः शब्दस्य विशेषणार्थत्वादस्पृष्टमपि योग्यदेशस्थमेव पश्यति, नायोग्यदेशस्थं सौधर्मादि कट-कुटयादिव्यवहितं वा घटादीति । [पृ०१०८ पं०७] अष्टविधं ज्ञानाचारमाह
For Private & Personal Use Only
5
20
www.jainelibrary.org