________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे __व्या० यस्माच्छोधिरूपो व्यवहारोऽपराधसञ्चितं पापं छिनत्ति विनाशयति, तेन कारणेन स प्रायश्चित्तं भण्यते, पृषोदरादित्वादिष्टरूपसिद्धिः, अथवा प्रायेण प्रायोऽपराधमलिनं चित्तं जीवम्, अत्र चित्तशब्देन चित्त-चित्तवतोरभेदोपचाराज्जीवोऽभिधीयते, तथा चाह चूर्णिकृत्चित्त इति जीवस्याख्ये ति । विशोधयत्यपराधमलरहितं करोति, तेन कारणेन प्रायश्चित्तम्, प्रायः 5 प्रायेण चित्तं यथावस्थितं भवत्यस्मादिति प्रायश्चित्तमिति व्युत्पत्तेः, वैयाकरणाभियुक्तास्तु प्रायश्चित्तशब्दस्यैवं व्युत्पत्तिं कुर्वन्ति, यदाह श्री रामस्वामी- प्रायो विनाशः, चित्तं सन्धानम्, विनष्टस्य सन्धानं प्रायश्चित्तमिति । प्रायस्य चितिचित्तयोरिति पारस्करादिपाठात् सुट् । तथा शोधनमपि प्रायः पापं विनिर्दिष्टं चित्तं तस्य विशोधनम् । तथा निश्चयमपि
प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । ___ 10 तपो निश्चयसंयुक्तं, प्रायश्चित्तं विदुर्बुधाः ॥१॥ [मनुस्मृति ११।४७] ।
इति द्विस्थानकप्रथमोद्देशकटीकागतगाथाविवरणं समाप्तम् ॥१॥
[अथ द्विस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् ।]
[पृ०१०७ पं०७] अथैतद्व्याख्यानाय भाष्यम्15 पुढे रेणुं व तणुम्मि, बद्धमप्पीकयं पएसेहिं ।
छिक्काई चिअ गिण्हइ, सद्ददव्वाइं जं ताई ॥१॥ बहुसुहुमभावुगाई, जं पडुयरं च सोत्तविण्णाणं । गंधाईदव्वाइं, विवरीआई जओ ताई ॥२१॥
फरिसाणंतरमत्तप्पएसमीसीकयाई घेप्पंति । 20 पडुअरविण्णाणाई, जं च न घाणाइकरणाई ॥३॥ [विशेषाव० ३३७-३३९]
व्या० स्पृष्टमित्यस्य व्याख्यानं पुढे रेणुं व तणुम्मि त्ति, यथा रेणोस्तनौ सम्बन्ध इत्येतावन्मात्रेण यद्वस्तु सम्बद्धं तदिह स्पृष्टमुच्यते इति भावः । बद्धमित्यादि, यदात्मीकृतम् आत्मना गाढतरमागृहीतम्, आत्मप्रदेशस्तनुलग्नतोयवन्मिश्रीकृतं तद् बद्धमुच्यत इत्यर्थः । तत्र छिक्काइं चिअ त्ति स्पृष्टान्येव शब्दद्रव्याणि गृह्णाति श्रोत्रम्, यतस्तानि बहूनि सूक्ष्माणि भावुकानि
१. यत्र यत्र व्यवहारभाष्यसत्का गाथा उद्धृताः तत्र सर्वत्र मलयगिरिसूरिविरचिता व्यवहारभाष्यवृत्तिरनुसन्धेया । २. पाणिनीयव्याकरणे "पारस्करप्रभृतीनि च” इति ६११५७ सूत्रं द्रष्टव्यम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org