SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ द्विस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम् व्या० हरितालं मनःशिला पिप्पली च खर्जूरः, एते प्रतीताः, मुद्रिका द्राक्षा, अभया हरीतकी, एतेऽप्येवमेव लवणवद्योजनशतगमनादिभिरचित्तीभवन्तो ज्ञातव्याः, परमेके अत्राचीर्णा अपरेऽनाचीर्णास्तत्र पिप्पली - हरीतकीप्रभृतय आचीर्णा इति कृत्वा गृह्यन्ते, खर्जूर- मुद्रिकादयः पुनरनाचीर्णा इति न गृह्यन्ते ||२७|| अथ सर्वेषां सामान्येन परिणमनकारणमाह आरुहणे ओरुहणे, निसिअण गोणाइणं च गाउम्हा । भूमाहारच्छेए, उवक्कमेणेव परिणामो ||२८|| [बृहत्कल्पभा० ९७५] व्या० आरुहणे ओरुहणे इति, शकटे गवादिपृष्ठेषु च लवणादीनां यद्भूयो भूय आरोहणमवरोहणं च, तथा यत्तस्मिन् शकटादौ लवणादिभरोपरि मनुष्या निषीदन्ति, तेषां गवादीनां च यः कोऽपि पृष्ठादिगात्रोष्मा, तेन च परिणामो भवति । तथा यो यस्य भौमादिकः 10 पृथिव्यादिक आहारस्तद्व्यवच्छेदे तस्य परिणाम उपक्रमः शस्त्रम्, उपक्रम्यन्ते जीवानामायूंषि अनेनेति व्युत्पत्तेः तच्च शस्त्रं त्रिधा - स्वकायशस्त्रं परकायशस्त्रं तदुभयशस्त्रं चेति । तत्र स्वकायशस्त्रं यथा— लवणोदकं मधुरोदकस्य कृष्णभूमं वा पाण्डुभूमस्येति, परकायशस्त्रं यथाअग्निरुदकस्य उदकं चाग्नेरिति, तदुभयशस्त्रं यथा— उदकमृत्तिका शुद्धोदकस्येत्यादि, एवमादीनि सचित्तवस्तूनां परिणमनकारणानि मन्तव्यानि । , ५१ 15 [पृ०९०] घुट्टगडगलगलेवो, एमाइ पयोअणं बहुसो [ ओघनि. ३४२] || गाथार्द्धम् । घुट्टकोऽमत्रादिमसृणकारः, डगलका लेष्टवः, पुतादिनिर्लेपनार्थाः, लेपद्रव्यादिप्रयोजनानि बहूनि अचित्तपृथिव्यां साधूनामिति ॥२८॥ [पृ०९५] पावं छिंदइ जम्हा, पायच्छित्तं तु भण्णए [पृ०९४] पुव्वामुहो उ उत्तरमुहो व देज्जाऽहवा पडिच्छेजा । जीए जिणादओ वा, हवेज जिणचेइआइं वा ॥२९॥ [तुला - पञ्चव. १३१] 20 व्या० सुगमैव, नवरं पूर्वाभिमुख उत्तराभिमुखो वा दद्याद् गुरुरथवा प्रतीच्छेच्छिष्यो यस्यां जिनादयो वा, जिना: मनःपर्यायज्ञानिनोऽवधिसम्पन्नाश्चतुर्दशपूर्वधरा नवमपूर्वधराश्च निचैत्यानि वा यस्यां दिशि आसन्नानि, तदभिमुखो वा दद्यादथवा प्रतीच्छेदिति गाथार्थः ||२९|| प्रायश्चित्तशब्दं व्याख्यानयन् व्यवहारकृदाह Jain Education International 5 1 पाएण वावि चित्तं, विसोहते तेण पच्छित्तं ॥३०॥ [ व्यवहारपीठिका. ३५] १. घट्टकः - पाषाणकः येन पात्रकं लेपितं सद् घृष्यते इति ओघनिर्युक्तिवृत्तौ ॥ २. जेण... तेणं- व्यवहारभाष्ये ॥ For Private & Personal Use Only 25 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy