SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ द्विस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम् बुद्धिचतुष्टयेऽप्येषां सद्भावाच्छुतनिश्रितमतिज्ञानसम्बन्धिष्ववग्रहादिगताष्टाविंशतिभेदेष्ववग्रहादिसामान्येन बुद्धिचतुष्टयस्यान्तर्भावो भावनीयः, ततो न युक्तं व्यञ्जनावग्रहचतुष्टयापगमेन पुनबुद्धिचतुष्टयप्रक्षेपणमिति गाथार्थः ॥२०॥ [पृ०८४] अङ्गानङ्गप्रविष्टश्रुतयोरिदं नानात्वम्, एतद्भेदकारणं किमर्थम् ? आहगणहर १ थेराइकयं २, आएसा मुक्कवागरणओ वा २ १ । 5 धुव १ चल २ विसेसओ वा, अंगाणंगेसु नाणत्तं ॥२१॥ [विशेषाव० ५५०] व्या० गणधरा गौतमादयस्तत्कृतं श्रुतं द्वादशाङ्गरूपमङ्गप्रविष्टमुच्यते, स्थविरास्तु भद्रबाहुस्वाम्यादयस्तत्कृतं तु श्रुतमावश्यकनियुक्त्यादिकमनङ्गप्रविष्टम् अङ्गबाह्यमुच्यते । अथवा वारात्रयं गणधरपृष्टस्य तीर्थकरस्य सम्बन्धी यः आदेशः प्रतिवचनम् उत्पाद-व्यय-ध्रौव्यवाचकं पदत्रयमित्यर्थः, तस्माद्यन्निष्पन्नं तदङ्गप्रविष्टं द्वादशाङ्गमेव । मुक्तं मुत्कलम् अप्रश्नपूर्वकं यद् 10 व्याकरणम् अर्थप्रतिपादनम्, तस्मान्निष्पन्नमङ्गबाह्यमभिधीयते, तच्चाऽऽवश्यकादिकम् । वाशब्दोऽङ्गानङ्गप्रविष्टत्वे पूर्वोक्तभेदकारणादन्यत्वसूचकः । तृतीयं भेदकारणमाह- धुवचलविसेसओ व त्ति ध्रुवं सर्वतीर्थकरतीर्थेषु नियतम् निश्चयभावि श्रुतमङ्गप्रविष्टमुच्यते द्वादशाङ्गमिति, यत् पुनश्चलम् अनियतमनिश्चयभावि तत्तन्दुलवैकालिकप्रकीर्णकादिश्रुतमङ्गबाह्यम् । वाशब्दोऽत्रापि भेदकारणान्तरत्वसूचकः, इदमुक्तं भवति-गणधरकृतं पदत्रयलक्षणतीर्थकरादेशनिष्पन्नं ध्रुवं च 15 यच्छ्रुतं तदङ्गप्रविष्टमुच्यते, तच्च द्वादशाङ्गीरूपमेव, यत् पुनः स्थविरकृतं मुत्कलार्थाभिधानं चलं च तदावश्यक-प्रकीर्णकादिश्रुतमङ्गबाह्यमिति ।।२१।। [पृ०८४] आवश्यकशब्दार्थमेव स्पष्टयतिसमणेण सावएण य, अवस्स कायव्वं हवइ जम्हा । अंतो अहोनिसस्स य, तम्हा आवस्सयं नाम ॥२२॥ [विशेषाव० ८७३] 20 व्या० श्रमणादिभिरहोरात्रमध्ये अवश्यं करणादावश्यकमितीह तात्पर्यमिति ॥२२।। [पृ०८५] सुत्तशब्दस्य निरुक्तेन सार्द्धगाथया नानार्थताम् अर्द्धगाथया च अर्थशब्दनिरुक्तमाह सिंचइ खरइ जमत्थं, जम्हा सुत्तं निरुत्तविहिणा वा । सूएइ सवइ सुव्वइ, सिव्वइ सरए व जेणऽत्थं ॥२३॥ [विशेषाव० १३६८] 25 व्या० षिच क्षरणे [पा०धा० १४३५], सिञ्चति क्षरति यस्मादस्तितो निरुक्तविधिना सूत्रम्, श्रूयत इति वा सूत्रम्, सीव्यते विशिष्टघटनामानीयत इति वा सूत्रम्, सरति वाऽर्थमनुगच्छति यस्मात्तत: सूत्रमिति ॥२३॥ तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy