________________
४८
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
शब्दादिपरिणतद्रव्यात्मकानां व्यञ्जनानामवग्रहो व्यञ्जनावग्रहः, इत्युभयत्राप्येकस्य लोपं कृत्वा समास इति गाथार्थः ॥१८॥
[पृ०८४] अत्राक्षेपं परिहारं चाभिधित्सुराहअन्नाणं सो बहिराईणं व तक्कालमणुवलंभाओ । आचार्य:- न तदंते तत्तो च्चिअ, उवलंभाओ तयं नाणं ॥१९॥ [विशेषाव० १९५]
व्या० स व्यञ्जनावग्रहोऽज्ञानम्, ज्ञानं न भवति, तस्य उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धस्य कालस्तत्कालस्तस्मिन् ज्ञानस्यानुपलम्भात् स्वसंवेदनेनाऽसंवेद्यमानत्वाद् बधिरादीनामिव, यथा हि बधिरादीनामुपकरणेन्द्रियस्य शब्दादिविषयद्रव्यैस्सह सम्बन्धकाले न किमपि ज्ञानमनुभूयते अननुभूयमानत्वाच्च तन्नास्ति तथेहापीति भावः । अत्रोत्तरमाह- न तदंते 10 इत्यादि, नासौ जडरूपतया ज्ञानरूपेणाननुभूयमानत्वादज्ञानम्, किं तर्हि ? तकोऽसौ व्यञ्जनावग्रहो
ज्ञानमेव, कुतः ? तदन्ते तस्य व्यञ्जनावग्रहस्यान्ते तत एव ज्ञानात्मकस्यार्थावग्रहोपलम्भस्य भावात्, तथाहि-यस्य ज्ञानस्यान्ते तज्ज्ञेयवस्तूपादानात्तत एव ज्ञानमुपजायते तज्ज्ञानं दृष्टम्, यथाऽर्थावग्रहपर्यन्ते तज्ज्ञेयवस्तूपादानत ईहासद्भावादर्थावग्रहो ज्ञानम्, जायते च व्यञ्जनावग्रहस्य
पर्यन्ते तज्ज्ञेयवस्तूपादानात्तत एवार्थावग्रहज्ञानम्, तस्माद् व्यञ्जनावग्रहो ज्ञानमिति गाथार्थः ।।१९।। 15 [पृ०८४] अवग्रहेहा-ऽपायान् स्पष्टतया गाथैकया व्याख्यानयति
किह पडिकुक्कुडहीणो, जुज्झे बिंबेण वग्गहो ईहा । किं सुसिलिट्ठमवाओ, दप्पणसंकंतबिंब ति ॥२०॥ [विशेषाव० ३०४]
व्या० राज्ञा नटकुमारकस्य भरतस्य किल बुद्धिपरीक्षणार्थमादिष्टम्, यदुत अयं मदीयः कुर्कुटो द्वितीयकुर्कुटमन्तरेणैकक एव योधनीयः, ततस्तेन जिज्ञासितं मनसि- कथमयं 20 प्रतिकुर्कुटहीन: प्रतिपक्षभूतद्वितीयकुर्कुटवर्जितो युध्येत ?, एतच्च जिज्ञासमानस्य तस्य झगित्येव
स्फुरितं चेतसि, किमित्याह- बिम्बेनेति, आत्मीयेन प्रतिबिम्बेन पुरो वीक्षितेन दर्पाध्यातत्वादयं युध्यत इत्यवगृहीतमित्यर्थः । एतच्च किमित्याह- अवग्रहः, सामान्येनैव बिम्बमात्रावग्रहणादवग्रहो मतिप्रथमभेद इत्यर्थः । ईहा तर्हि का ? इत्याह- ईहा किं सुसिलिट्ठमिति, किं
पुनस्तत्प्रतिबिम्बमस्य योधनाय सुश्लिष्टं सुष्ठ युज्यमानकं भवेत् किं तडागपयःपूरादिगत25 माहोश्विद्दर्पणगतम् ? इत्यादि बिम्बविशेषान्वेषणम् ईहा इत्यर्थः । अपायमुपदर्शयति- अवाओ
दप्पणसंकंतबिंब ति कल्लोलादिभिः प्रतिक्षणमपनीयमानत्वादस्पष्टत्वाच्च जलादिगतबिम्बमिह न युक्तम्, ततः स्थिरत्वेन स्पष्टादित्वेन च चरणाघातादिविषयत्वाद्दर्पणसङ्क्रान्तमेव तदत्र युज्यत इत्येवं बिम्बविशेषनिश्चयोऽपाय इत्यर्थः । एवमन्येष्वपि बुद्ध्युदाहरणेष्ववग्रहादयो भावनीयास्तस्माद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org