________________
द्विस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम्
विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला । चिंतिअमणुसरड़ घडं, पसंगओ पज्जयसएहिं ||१६|| [विशेषाव० ७८५]
व्या० विपुलं वस्तुनो घटादेर्विशेषणानां देश - क्षेत्र - कालादीनां मानं सङ्ख्यास्वरूपम्, तद्ग्राहिणी विपुलमतिः, चिन्तितमनुस्मरति घटं प्रसङ्गतः पर्यायशतैः सहेति शेषः ॥ १६ ॥ [पृ०८३] मतिज्ञानस्य भेदद्वयमाह -
४७
पुव्वं सुअपरिकम्मिअमइस्स जं संपयं सुआतीतं ।
तं निस्सिअमिअरं पुण, अणिस्सिअं मइचउक्कं तं ॥ १७॥ [विशेषाव ० १६९ ] व्या० व्यवहारकालात् पूर्वं यथोक्तरूपेण श्रुतेन परिकर्मिता आहितसंस्कारा मतिर्यस्य स तथा, तस्य साध्वादेर्यत् साम्प्रतं व्यवहारकाले श्रुतातीतं श्रुतनिरपेक्षं ज्ञानमुपजायते, तच्छ्रुतनिश्रितमवग्रहादिकं सिद्धान्ते प्रतिपादितम्, इतरत् पुनरश्रुतनिश्रितम्, तच्चौत्पत्तिक्यादि- 10 मतिचतुष्टयं द्रष्टव्यम्, श्रुतसंस्कारानपेक्षया सहजत्वात्तस्य ॥१७॥
Jain Education International
5
[पृ०८३] व्यञ्जनावग्रहस्य सदृष्टान्तं व्याख्यानमाह
वंजिज्जइ जेणsत्थो, घडो व्व दीवेण वंजणं तो तं । उवगरणिंदियसद्दाइपरिणयद्दव्वसंबंध || १८ || [विशेषाव० १९४ ]
व्या० व्यज्यते प्रकटीक्रियतेऽर्थो येन दीपेनेव घटस्तद् व्यञ्जनम्, किं पुनस्तदित्याह - 15 तं चेत्यादि तच्च व्यञ्जनम् उपकरणेन्द्रिय- शब्दादिपरिणतद्रव्यसम्बन्धः । इन्द्रियं द्विविधम्द्रव्येन्द्रियं भावेन्द्रियं च । तत्र निर्वृत्त्युपकरणे द्रव्येन्द्रियम्, लब्ध्युपयोगौ भावेन्द्रियम् [तत्त्वार्थ० २।१७-१८], निर्वृत्तिश्च द्विधा-अङ्गुलासङ्ख्येयभागादिमाना कदम्बकुसुमगोलक - धान्यमसूर-काहलाक्षुरप्राकारमांसगोलकरूपा शरीराकारा च श्रोत्रादीन्द्रियाणां पञ्चानामपि यथासङ्ख्यमन्तर्निर्वृत्तिः, कर्णशष्कुलिकादिरूपा तु बहिर्निर्वृत्तिः । तत्र कदम्बकुसुमगोलकाकारमांसखण्डादिरूपाया 20 अन्तर्निर्वृत्तेः शब्दादिविषयपरिच्छेदहेतुर्यः शक्तिविशेषः स उपकरणेन्द्रियम्, शब्दादिश्च श्रोत्रादीन्द्रियाणां विषयः, आदिशब्दाद्रस- गन्ध - स्पर्शपरिग्रहः । तद्भावेन परिणतानि च भाषावर्गणादिसम्बन्धीनि द्रव्याणि च शब्दादिपरिणतद्रव्याणि, उपकरणेन्द्रियं च शब्दादिपरिणतद्रव्याणि च तेषां परस्परं सम्बन्धः उपकरणेन्द्रिय- शब्दादिपरिणतद्रव्यसम्बन्धः, एष तावद् व्यञ्जनमुच्यते । अपरं च इन्द्रियेणाप्यर्थस्य व्यज्यमानत्वात्तदपि व्यञ्जनमभिधीयते, 25 इत्येवमुपलक्षणव्याख्यानात् त्रितयमपि यथोक्तं व्यञ्जनमवगन्तव्यम् । ततश्चेन्द्रियलक्षणेन व्यञ्जनेन व्यञ्जनपरिणतद्रव्यसम्बन्धस्वरूपस्य व्यञ्जनस्यावग्रहो व्यञ्जनावग्रहः । अथवा तेनैव व्यञ्जनेन
For Private & Personal Use Only
www.jainelibrary.org