________________
४६ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे तेन तेभ्यो यन्मतिश्रुतलक्षणं ज्ञानमुत्पद्यते तत्तस्य साक्षादनुत्पत्तेः परोक्षम्, अनुमानवदिति । इदमुक्तं भवति-अपौद्गलिकत्वादमूर्तो जीवः, पौद्गलिकत्वात्तु मूर्तानि द्रव्येन्द्रिय-मनांसि, अमूर्ताच्च मूर्तं पृथग्भूतम्, ततस्तेभ्यः पौद्गलिकेन्द्रिय-मनोभ्यो यन्मति-श्रुतलक्षणं ज्ञानमुपजायते तद्भूमादेरग्न्यादिज्ञानवत् परनिमित्तत्वात् परोक्षमिह जिनमते परिभाष्यत इति गाथार्थः ॥११॥ 5 पृ०८२] अवधेः क्षायोपशमिके विद्यमानत्वेन सुर-नारकयोर्भवप्रत्ययिकभणितावाक्षेप तत्परिहारं चापि गाथाद्वयेनाह
ओही खओवसमिए, भावे भणिओ भवो तहोदइए । ता किह भवपच्चइओ, वोत्तुं जुत्तोऽवही दोण्हं? ॥१२॥
सो वि हु खओवसमिओ, किंतु स एव खओवसमलाभो । __10 तम्मि सइ होअऽवस्सं, भण्णइ भवपच्चओ तो सो ॥१३॥
विशेषाव० ५७३-५७४] व्या० अवधिः क्षायोमशमिके भावे भवति, भवस्तु औदयिके भावे, तत् कथं भवप्रत्ययिको वक्तुं युक्तोऽवधिः?। दोण्हं ति सुर-नारकाणाम् । इत्यत्राह- सोऽपि सुर-नारकावधिः
खओवसमिओ त्ति क्षयोपशमादेव, स च तस्मिन् सुर-नारकभवे सत्यवश्यं भवति, अतोऽसौ 15 सुर-नारकावधिर्भवप्रत्ययो भण्यते ॥१२-१३।।
[पृ०८२] ननु कर्मणः क्षयोपशमादयः किं भवादिनिमित्ता भवन्ति ? इत्याहउदय-क्खय-खओवसमोवसमा वि अ जं च कम्मुणो भणिआ । दव्वं खेत्तं कालं, भवं च भावं च संपप्प ॥१४॥ [विशेषाव० ५७५]
व्या० यतः सक्-चन्दना-हिविषादिद्रव्यादीनि प्राप्य प्राणिनां सुखदुःखोदयादयस्तीर्थकर20 गणधरैरागमे भणिताः प्रत्यक्षतो दृश्यन्ते च, अतः सुर-नारकाणां तद्भवमपेक्ष्यावधिक्षयोपशमोऽप्यवश्यं भवतीति ॥१४॥
[पृ०८३] द्विभेदं मनःपर्यवज्ञानं गाथाद्वयेनाहरिजु सामण्णं तम्मत्तगाहिणी रिउमई मणोनाणं । पायं विसेसविमुहं, घडमेत्तं चिंतिअं मुणइ ॥१५॥ [विशेषाव० ७८४]
व्या० ऋजु सामान्यम्, तन्मात्रग्राहिणी ऋजुमतिः, ऋज्वी प्रायो घटादिसामान्यमात्रग्राहिणी मतिरिति व्युत्पत्तेः, विपुलमत्यपेक्षया किञ्चिदविशुद्धतरं मनःपर्यायज्ञानं प्रायो विशेषविमुखं घटमात्रं चिन्तितं जानाति ॥१५॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org