________________
द्विस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम्
सम्यक्त्वस्याऽऽवारका न भवन्ति, अतस्तेऽप्युपचारतः सम्यक्त्वमुच्यत इत्यक्षरार्थघटना । भावार्थस्त्वयम् - क्षायोपशमिके मिथ्यात्वस्य विपाकतोऽनुभावो नास्ति, प्रदेशतस्तु तदनुभावोऽस्त्येव वेइज्जंतं इत्युक्तत्वात् शोधितमिथ्यात्वपुद्गलानां सम्यक्त्वानावारकाणामुदयसद्भावात्, औपशमिके तु विपाक-प्रदेशाभ्यां मिथ्यात्वपुद्गलानामनुभवनं नास्त्येवेति ॥८॥
[पृ०८०] औपशमिक-क्षायोपशमिकस्वरूपं तद्भेदं चाभिधाय क्षायिकस्वरूपमाह- 5 खीणे दंसणमोहे, तिविहम्मि वि भवनियाणभूअम्मि ।
निप्पच्चवायमउलं, सम्मत्तं खाइअं होइ ॥ ९॥ [तुला - विशेषाव०५३३]
व्या० अनन्तानुबन्धिकषायचतुष्टयानन्तरं भवनिदानभूते संसारासाधारणकारणभूते मिथ्यात्वमिश्र-सम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे क्षायिकं भवति, शेषं सुगमम् । इति गाथाचतुष्टयसङ्क्षेपार्थः, विस्तरार्थस्तु विशेषावश्यकादिग्रन्थादवसेयः, गाथाक्षरार्थस्यैवात्र 10 प्रतिज्ञातत्वादिति ॥
[पृ०८१] तत्र प्रत्यक्षस्य लक्षणमाह
अक्खो जीवो अत्थव्वावणभोअणगुणण्णिओ जेण ।
तं पड़ वट्टइ नाणं, जं पच्चक्खं तमिह तिविहं ॥ १०॥ [विशेषाव०८९ ]
व्या० अक्षस्तावज्जीव उच्यते, केन हेतुना ? इत्याह- अत्थव्वावणेत्यादि, अर्थव्यापन - 15 भोजनगुणान्वितो येन तेन अक्षो जीवः । इदमुक्तं भवति - अशू व्याप्तौ [ पा०धा० १५२४] अश्नुते ज्ञानात्मना सर्वार्थान् व्याप्नोतीत्युणादिनिपातनादक्षो जीवः । अथवा अश भोजने [पा०धा०१२६५] अश्नाति समस्तत्रिभुवनान्तर्वत्तिनो देवलोकसमृद्ध्यादीनर्थान् पालयति भुङ्क्ते वेति निपातनादक्षो जीवः । अश्नातेर्भोजनार्थत्वाद्भुजेश्च पालना - ऽभ्यवहारार्थत्वादिति भावः । इत्येवमर्थव्यापनभोजनगुणयुक्तत्वेन जीवस्याक्षत्वं सिद्धं भवति, तमक्षं जीवं प्रति साक्षाद् गतमिन्द्रियनिरपेक्षं 20 वर्त्तते यज् ज्ञानं तत् प्रत्यक्षम्, तच्चावधि - मनः पर्याय- केवलज्ञानभेदात् त्रिविधं त्रिप्रकारम्, तस्यैव साक्षादर्थपरिच्छेदकत्वेन जीवं प्रति साक्षाद्वर्त्तमानत्वादिति गाथार्थः ||१०||
[पृ०८१] अथ परोक्षज्ञानस्वरूपमाह
अक्खस्स पोग्गलकया, जं दव्विंदिअमणा परा तेण ।
४५
तेहिं तो जं नाणं, परोक्खमिह तमणुमाणं व ॥ ११ ॥ [विशेषाव० १०]
व्या० यद् यस्माद् द्रव्येन्द्रियाणि द्रव्यमनश्च अक्षस्य जीवस्य पराणि भिन्नानि वर्त्तन्ते । कथम्भूतानि पुनर्द्रव्येन्द्रिय- द्रव्यमनांसि ? इत्याह- पुद्गलकृतानि पुद्गलस्कन्धनिचयनिष्पन्नानि, हेतुद्वारेण चेदं विशेषणं द्रष्टव्यम्, पुद्गलकृतत्वाद् येन द्रव्येन्द्रिय- मनांसि जीवस्य परभूतानि
Jain Education International
For Private & Personal Use Only
25
www.jainelibrary.org