________________
४४
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे व्या० उपशमश्रेणिगतस्य दर्शनसप्तके उपशमं नीते औपशमिकं सम्यक्त्वं भवति । किमुपशमश्रेणिगतस्यैवैतद्भवति ? नेत्याह- यो वा जन्तुरनादिमिथ्यादृष्टिस्सनकृतत्रिपुञ्जो मिथ्यात्वमोहनीयस्याऽविहितशुद्धा-ऽशुद्ध-मिश्रपुञ्जत्रयविभागोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वं तस्याप्यन्तरकरणप्रविष्टस्यौपशमिकं सम्यक्त्वमवाप्यते, क्षपितमिथ्यात्वपुञ्जोऽप्यविद्यमानत्रिपुञ्जो 5 भवति, अतस्तद्व्यवच्छेदार्थमुक्तम्-- अक्षपितमिथ्यात्वः सन् योऽत्रिपुञ्जः सम्यक्त्वं लभते तस्यैवौपशमिकं सम्यक्त्वमवाप्यते, क्षपितमिथ्यात्वः क्षायिकसम्यक्त्वमेव लभत इति भावः ॥६॥
खीणम्मि उदिण्णम्मि य, अणुदिजंते अ सेसमिच्छत्ते । अंतोमुत्तकालं, उवसमसम्मं लहइ जीवो ॥७॥ [विशेषाव० ५३०]
व्या० इहानादिमिथ्यादृष्टिः कश्चिदायुर्वर्जसप्तकर्मप्रकृतिषु यथाप्रवृत्तकरणेन क्षपयित्वा 10 प्रत्येकमन्तस्सागरोपमकोटीकोटीप्रमाणतां नीतासु अपूर्वकरणेन ग्रन्थिभेदं कृत्वा अनिवृत्तिकरणं
प्रविशति । ततस्तत्रानिवृत्तिकरणे यदीर्णम् उदयमागतं मिथ्यात्वं तस्मिन्ननुभवेनैव क्षीणे निर्जीणे, शेषे तु सत्तावर्तिनि मिथ्यात्वेऽनुदीयमाने परिणामविशुद्धिविशेषादुपशान्ते विष्कम्भितोदयेऽन्तर्मुहूर्तमुदयमनागच्छतीत्यर्थः । किमित्याह- अन्तर्मुहूर्त्तमानं कालम् औपशमिकं सम्यक्त्वं लभते
जीवः, अस्माच्चौपशमिकसम्यक्त्वादतिक्रान्तो मिथ्यात्वपुञ्जस्यैवोदयान्मिथ्यात्वमेव गच्छति, 15 शेषपुञ्जद्वयस्याकृतत्वेनाविद्यमानत्वादिति ॥७॥
[पृ०८०] नन्वौपशमिक -क्षायोपशमिकयोः को भेदः ?, उभयत्रापि क्षयोपशमयोर्जायमानत्वादिति शङ्काशङ्ख क्षायोपशमिकलक्षणम् औपशमिकाच्च तद्भेदं दर्शयन्नाह
मिच्छत्तं जमुदिण्णं, तं खीणं अणुइअं च उवसंतं ।। ___ मीसीभावपरिणयं, वेइज्जतं खओवसमं ॥८॥ [विशेषाव०५३२] 20 व्या० यदुदीर्णम् उदयमागतं मिथ्यात्वं तद्विपाकोदयेन वेदितत्वात् क्षीणं निर्जीर्णम्, यच्च
शेषं सत्तायामनुदयगतं वर्त्तते तदुपशान्तम्, उपशान्तं नाम विष्कम्भितोदयमपनीतमिथ्यास्वभावं च शेषमिथ्यात्वं मिथ्यात्व-मिश्रपुञ्जावाश्रित्य विष्कम्भितोदयं शुद्धपुञ्जमाश्रित्य पुनरपनीतमिथ्यात्वस्वभावमित्यर्थः । अणुइअं चेति चशब्दस्य व्यवहितप्रयोगाच्छुद्धपुञ्जलक्षणं तदुपशान्तं चेति, अनपनीतमिथ्यास्वभावमित्यर्थः । इत्येवं सर्वं सुस्थं भवति । तदेवम् 25 उदीर्णमिथ्यात्वस्य क्षयोऽनुदीर्णस्य च उपशम एतत्स्वभावद्वयस्य योऽसौ मिश्रीभाव एकत्र मिथ्यात्वलक्षणे धर्मिणि भवनरूपस्तमापन्नं मिश्रीभावपरिणतं वेद्यमानम् अनुभूयमानं त्रुटितरसं शुद्धपुञ्जलक्षणं मिथ्यात्वमपि क्षयोपशमाभ्यां निर्वृत्तत्वात् क्षायोपशमिकसम्यक्त्वमुच्यते, शोधिता हि मिथ्यात्वपुद्गला अतिस्वच्छवस्त्रमिव दृष्टे यथावस्थितत्त्वरुच्यध्यवसायरूपस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org