________________
४३
द्विस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम् कार्यम्, अतो दृष्टेनादृष्टमपि निर्वाणं ज्ञानस्यैव कार्यम् इत्यनुमीयते ॥२॥ इत्येतद्दर्शयन्नाह
जह सा नाणस्स फलं, तह सेसं पि तह बोहकाले वि । नेअपरिच्छेअमयं, रागादिविणिग्गहो जो य ॥३॥ जं च मणोचिंत्तिअमंतपूअविसभक्खणाइबहुभेयं । फलमिह तं पच्चक्खं, किरियारहिअस्स नाणस्स॥४॥ [विशेषाव०११३४-११३५] 5 व्या० द्वे अप्युक्तार्थे एव ।
[पृ०७४] ननु केवलं ज्ञानमेव सर्वत्र कार्ये सोपयोगीत्येव वक्तुं न शक्यते, फलस्य क्रियया जन्यत्वात्, इत्येवार्थं मनसिकृत्याह
तो तं कत्तो आचार्यः भण्णइ, तस्समयनिबद्धदेवओवहियं । किरिआफलं चिअ जओ, न मंतणाणोवओगस्स ॥५॥ [विशेषाव०११४१] 10
व्या० यदि केवलं मन्त्रज्ञानकृतं नभोगमनादिकार्यं न भवति ततस्तर्हि कुतस्तदिति वाच्यम्, भण्यतेऽत्रोत्तरम्- तद् नभोगमनादिकार्यं समयनिबद्धदेवतोपहितं तत् क्रियाफलमेव यस्मात्ततो न ज्ञानोपयोगमात्रस्यैव फलमिति । इदमुक्तं भवति-समयः सङ्केतस्ततो यत्र यत्र देवतानां समये सङ्केते उपनिबद्धा मन्त्रास्तद्देवताकृतमेव तत्तत् फलम्, देवताश्च सक्रिया एव, अतः सक्रियदेवताभिरुपाहृतं सत् तत् क्रियाफलमेव यतोऽतो न केवलस्य ज्ञानमात्रोपयोगस्य फलमिति 15 स्थितम् ॥ ___ आह-ननु देवताह्वानं तावत् केवलादेव मन्त्रानुस्मरणज्ञानोपयोगाद्भवति न वेति वक्तव्यम्, यदि भवति तर्हि शेषकार्याण्यपि केवलात्तत एव किं नेष्यन्ते ?, अथ न भवति तर्हि कथमसाविहागत्य नभोगमन-विषवीर्यापहारादिकार्याणि कुर्यात् ?, अत्रोच्यते- देवताह्वानं भवति, परं न केवलादेव मन्त्रस्मरणज्ञानोपयोगमात्रात्, किन्तु पुनः पुनस्तज्जपनादिक्रियासहायात् 20 तस्माद्देवताह्वानमपि सम्पद्यते इत्यलं विस्तरेणेति ।
आह- किं ज्ञानं सर्वथैव निष्क्रियम् ? किंवा कांचिदेव विशिष्टां क्रियामधिकृत्य तनिष्क्रियमिति । अत्रोच्यते-वस्तुपरिच्छेदमात्रं तत् करोति, तत्करणादेव च सहकारिकारणतया जीवस्य चारित्रक्रियां जनयति ॥५॥
[पृ०७९] औपशमिकसम्यक्त्वलाभविधिस्तत्कालमानं च गाथाचतुष्टयेनाहउवसामगसेढिगयस्स, होइ उवसामिअं तु सम्मत्तं । जो वा अकयतिपुंजो, अखविअमिच्छो लहइ सम्मं ॥६॥ [विशेषाव०५२९]
25
१. तं समय' - विशेषावश्यके ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org