________________
४२ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे नास्ति, विशेषा एव सामान्यमित्याह । कस्मात् ? उपलम्भव्यवहाराभावात् । विशेषेभ्योऽन्यत् सामान्यं नोपलभ्यते प्रत्यक्षेण, इन्द्रिय-सामान्ययोरसन्निकर्षाद् व्यवहाराभावाच्च, सामान्येन दाहपाकादिव्यवहारो नास्ति, दाह-पाकादीनां विशेषेष्वेव व्यवहारात् । किंवत् ? खरविषाणवत्, यदा खरविषाणं प्रत्यक्षमपि नास्ति व्यवहारसाधकं नास्तीति अभाव एव । सर्वगाथा १२२
इति श्री वाचनाचार्यसुमतिकल्लोलगणि-वादिहर्षनन्दनगणिभ्यां विविच्य लिखितं श्री स्थानाङ्गतृतीयाङ्गे प्रथमस्थानटीकायामुक्तगाथार्थविवरणं सम्पूर्णम् ।।ग्रन्थाग्रं ८९३॥
5
[अथ द्विस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम् ] [पृ०७१] द्रव्यशब्दस्याप्रधानार्थतामपि दृष्टान्तद्वारा द्योतयति10 अप्पाहन्ने वि इहं, कत्थइ दिट्ठो ह दव्वसद्दो त्ति ।
अंगारमद्दओ जह, दव्वायरिओ सयाऽभव्वो ॥१॥ [पञ्चाशक० ६।१३]
व्या० अप्रधान्येऽपि इह क्वचिद् दृष्टो हुर्निश्चयेन द्रव्यशब्दः, कोऽर्थः ? द्रव्यशब्दस्यानेकार्थत्वेन अप्रधानार्थोऽपि द्रव्यशब्दो वर्त्तत इत्यर्थः । यथेत्युपदर्शने । कुत्र द्रव्य
शब्दोऽप्रधानार्थः ? इत्यत आह- अङ्गारमर्दको द्रव्याचार्य: अप्रधानाचार्यः, सदाऽभव्य 15 इत्यर्थः ॥१॥
[पृ०७३] ज्ञानवादी ज्ञानस्यैव प्राधान्यख्यापनाय गाथात्रयमाहआह पहाणं नाणं, न चरित्तं नाणमेव वा सुद्धं । कारणमिह न उ किरिआ, सावि हु नाणप्फलं जम्हा ॥२॥ विशेषाव०११३३]
व्या० ज्ञानमेव प्रधानं मोक्षकारणम्, न चारित्रम्, यदिवा शुद्धं ज्ञानमेवैकं मोक्षस्य कारणम्, 20 न तु क्रिया, यस्मादसावपि ज्ञानफलमेव ज्ञानकार्यमेव, ततश्च यथा मृत्तिका घटस्य कारणं
भवन्त्यपि तदपान्तरालवर्त्तिनां पिण्ड-शिवक-कुशूलादीनामपि कारणं भवति, एवं ज्ञानमपि मोक्षस्य कारणं तदपान्तरालभाविनां सर्वसंवरक्रियादीनामपीति । यथा क्रिया ज्ञानस्य कार्यम्, तथा शेषमपि यत् क्रियाऽनन्तरभावि मोक्षादिकं यच्च क्रियाया अर्वाग्भावि बोधिलाभकाले
तत्त्वपरिज्ञानादिकं रागद्वेषनिग्रहादिकं च तत् सर्वं ज्ञानस्यैव कार्यम्, यच्चेह सकलजनप्रत्यक्षं 25 मनश्चिन्तितमहामन्त्रपूतविषभक्षण-भूत-शाकिनीनिग्रहादिकं तत् सर्वं क्रियारहितस्य ज्ञानस्यैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org