SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्ययनटीकागतगाथाविवरणम् [पृ०६०] अत्रार्थे भाष्यकारसम्मतिमप्याहनाणाहीणं सव्वं, णाणणओ भणइ किं च किरिआए ?। किरिआए करणनओ, तदुभयगाहो अ सम्मत्तं ॥११९॥ [विशेषाव० ३५९१] व्या० ज्ञानाधीनमेव सर्वम् ऐहिकामुष्मिकं सुखम्, किमत्र क्रियया कर्त्तव्यम् ?, युक्तिं चेहानन्तरमेव वक्ष्यति । करणनयस्तु क्रियानयो वक्ष्यमाणयुक्तेरेव सर्वम् ऐहिकामुष्मिकं सुखं 5 क्रियाया एवाधीनमिति भणति। उभयग्राहश्चेह सम्यक्त्वं स्थित: पक्ष इति । [पृ०६१] सामान्यवादी स्वमतमेव गाथाद्वयेन स्पष्टयतिएकं निच्चं निरवयवमक्कियं सव्वगं च सामण्णं । णिस्सामण्णत्ताओ, नत्थि विसेसो खपुप्फं व ॥१२०॥ [विशेषाव० ३२] व्या० एकम् अद्वितीयत्वादेकसङ्ख्योपेतं सामान्यम् । एकमपि क्षणिकं स्यात्तत्राह- नित्यम् 10 अनपायि, नित्यमप्याकाशवत् सावयवं स्यात् तन्निरवयत्वे सवितुरुदयास्तमयायोगादित्यत्राहनिरवयम् अनंशम्, पूर्वापरकोटिशून्यत्वादिति । निरवयवमपि परमाणुवत् सक्रियं स्यादत आहअक्रियं कियारहितम्, परिस्पन्दनिर्मुक्तत्वादिति । अक्रियमपि दिगादिवत् सर्वगतं न स्यादत्राहसर्वगं च सकललोकावाप्तसत्ताकम्, इदमित्थम्भूतं सामान्यमेवास्ति, न तु विशेष: कश्चनापि विद्यते । कुतः ? इत्याह- निस्सामान्यत्वात् सामान्यविरहितत्वात्, खपुष्पवत्, यच्चास्ति 15 तत् सामान्यविरहितं न भवति, यथा घटः ॥ [पृ०६१] सामन्नाओ विसेसो, अन्नोऽणन्नो व होज ? जइ अन्नो । सो नत्थि खपुप्फं पि वऽणन्नो सामन्नमेव तयं ॥१२॥ [विशेषाव० ३४] व्या० भो विशेषवादिन् ! सामान्याद्विशेषोऽन्यो वा स्यादनन्यो वेति विकल्पद्वयम्, यद्याद्यो विकल्पस्तर्हि नास्त्येव विशेषः, निस्सामान्यत्वात्, खपुष्पवत् । इह यद्यत् सामान्यविनिर्मुक्तं 20 तत्तन्नास्ति, यथा गगनारविन्दम् । सामान्यविरहितश्च विशेषवादिना विशेषोऽभ्युपगम्यते तस्मान्नास्त्येवायमिति । अथानन्य इति द्वितीयः पक्षः कक्षीक्रियते, हन्त तर्हि सामान्यमेवासौ, तदनन्यत्वात्, सामान्यात्मवत्। यद्यस्मादनन्यत् तत्तदेव यथा सामान्यस्यैवात्मा, अनन्यश्च सामान्याद्विशेष इति सामान्यमेवायमिति। यदि चातिपक्षपातितया सामान्येऽपि विशेषोपचारः क्रियते तर्हि न काचित् क्वचित् क्षतिः, न [पचारेणोच्यमानो भेदस्तात्त्विकमेकत्वं बाधितुमलम्।। 25 [पृ०६१] न विसेसत्थंतरभूयमत्थि सामन्नमाह ववहारो । उवलंभव्ववहाराभावाओ खरविसाणं व ॥१२२॥ [विशेषाव०३५] व्या० व्यवहारो विशेषनयः, विशेषेभ्योऽर्थान्तरम्- अन्योऽर्थः अर्थान्तरम्- सामान्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy