________________
5
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
षट्तारा, तारा नाम ज्योतिर्विमानरूपा, कृत्तिकाणां षड् विमानानीत्यर्थः, एवं सर्वत्र ज्ञेयम्, नवरं जड़ तिहीति यदि तिथितुल्यं नक्षत्रं भवति तदा हतं कार्यम्, कोऽर्थः ? कृत्तिकायुक्तं यदि षष्ठीदिनं भवति तदा तत्र कार्यं न सिध्यतीत्यर्थः ॥
[पृ०६०] ज्ञानक्रिययोः प्रत्येकं पुरुषार्थतामाह
हयं नाणं कियाहीणं, हया अन्नाणिणो किया । पासंतो पंगुलो दड्ढो, धावमाणो अ अंधओ ।। ११७ ॥
[ आव० नि० १०१, विशेषाव ० ११५९] व्या० हतमिह ज्ञानम्, किंविशिष्टम् ? इत्याह-क्रियाहीनमिति, यत्र चारित्रक्रिया नास्तीत्यर्थः । ननु कथं क्रियाहीनं ज्ञानं हतमुच्यते ? इत्याह-यद्विफलं तदिह हतं विवक्षितम्, 10 फलं च ज्ञानस्य क्रियैव, ततो विगतफलं ज्ञानं क्रियाहीनमेवोच्यते, नान्यत् । अत्र च प्रयोग:हतं ज्ञानमेव केवलम्, सत्क्रियाहीनत्वात्, महानगरप्रदीपनकदाहे पलायनक्रियारहितपङ्गुलोचनज्ञानवदिति । एवमुक्ते सति क्रियात एव मोक्षमिच्छन् ज्ञानेऽनादृतस्तत्त्यागं मा कार्षीच्छिष्य इत्यतो भण्यते - हताऽज्ञानतः क्रिया, हता मोक्षलक्षणफलरहिता अज्ञानपरिगृहीता निह्नवादेः क्रिया, सम्यग्दृष्टेरपि ज्ञानोपयोगोशून्यस्य क्रिया हतैव, तथाविधफलविकलत्वात्, 15 सर्वतः सङ्कटप्रदीप्तनगरे दह्यमानगृहाद्यभिमुखपलायमानान्धगतिक्रियावदिति । तस्मादन्योन्यापेक्षे समुदिते एव ज्ञानक्रिये मोक्षस्य साधनमेष्टव्ये, न प्रत्येकमिति ॥
[पृ०६०] ज्ञानक्रियाभ्यां सहचरिताभ्यामेवेष्टविशिष्टफलसिद्धिरिति सूचिकां सदृष्टान्तां
४०
20
गाथामाह
संजोगसिद्धीइ फलं वयंति, न हु एगचक्केण रहो पयाति ।
अंध अपंगू य वणे समेच्चा ते संपयुत्ता नयरं पविट्ठा ॥ ११८ ॥ [आव० नि० १०२, विशेषाव० ११६५ ] व्या० ज्ञान - क्रिययोः संयोगनिष्पत्तावेव मोक्षलक्षणं फलमाचक्षते तीर्थकराः, नहि लोकेऽप्येकचक्रेण रथः प्रवर्तते, एवमन्यदपि सर्वसामग्रीजन्यमेव कार्यमवगन्तव्यम् । तथा चान्धपङ्गूदाहरणमिह वक्तव्यम् । तद्यथा - कस्यापि नगरस्य सत्को लोकः कुतोऽपि राजभयादरण्यं 25 गतः, तत्रापि तस्करधाटीभयाद्वाहनादिकमुज्झित्वा प्रपलायितः, अन्ध-पङ्गू पुनरनाथौ तत्रैव स्थितौ, तत्र च दवाग्नौ सर्वतः प्रदीप्ते तौ परस्परं सम्प्रयुक्तौ पङ्गुरन्धेन स्वस्कन्धमारोपितः स चान्धस्य समविषमस्थाणुकण्टकादिकं कथयत्यतः तस्य सत्केन चाक्षुषज्ञानेनान्धसत्कया च गतिक्रियया सम्यग्मार्गप्रवृत्त्या क्षेमेण नगरं प्रविष्टौ, इत्येवं सर्वत्र संयोगात् फलसिद्धिर्भावनीयेति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org