SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्ययनटीकागतगाथाविवरणम् तथा रजोहरणम्, तथा मुखवस्त्रिका चेति ॥ [पृ०५४] बत्तीसा अडयाला, सट्ठी बावत्तरी अ बोधव्वा । चुलसीई छन्नउई, दुरहिअमठुत्तरसयं च ॥१११॥ [संग्रहणी २४७] व्या० वृत्तिकृतैव सङ्ग्रहणीगाथा सविस्तरं व्याख्याता इति नेहार्थो व्याख्यातः ॥ [पृ०५८] महावीरशब्दं समासतो निरुक्ततो गाथाद्वयेन व्याख्याति भाष्यकृत्- 5 तिहुअणविक्खायजसो, महायसो नामओ महावीरो । विक्कंतो व कसायाइसत्तुसेन्नपराजयओ ॥११२॥ ईरेइ विसेसेण व खिवइ अ कम्माई गमयइ सिवं वा । गच्छइ अ तेण वीरो, स महं वीरो महावीरो ॥११३॥ [विशेषाव० १०५९-१०६०] व्या० उभयत्रापि महावीर इतिनामा जिनो जयतीति शेषः, किम्भूतः ? महत् 10 त्रिभुवनव्यापित्वाद् यशोऽस्येति महायशाः, अत एव पुनः किंविशिष्टः ? त्रिभुवने विख्यातं प्रसिद्धं यशोऽस्येति, पुनः किम्भूतः ? विक्कंतो वेति, कषायादिमहाशत्रुसैन्यपराजयाद्वीरः, शूर वीर विक्रान्तौ पान्धा० १९०३-१९०४] इति हेतोरपि महावीर इति । ईर गतौ [पा०धा० १०१८] कियत्क्षपितकर्मसाध्वपेक्षया विशेषत ईरयति क्षपयति तिरस्करोत्यशेषाण्यपि कर्माणीति वीरः, अथवा विशेषत ईरयति शिवपदं प्रति भव्यजन्तून् गमयतीति वीरः, यदि वा विशेषतः शिवपदं 15 स्वयमियर्ति गच्छतीति वीरः, अथवा दृ विदारणे [पा०धा० १४९४], विदारयति कर्मरिपुसङ्घट्टमिति वीरः, अत एव महाँश्चासौ वीरश्चेति च महावीरो जयतीति ॥ महावीरस्य सिद्धिगमनैकत्वे ग्रन्थसम्मतिमाह[पृ०५९] एगो भगवं वीरो, तित्तीसाए सह निव्वुओ पासो । छत्तीसएहिं पंचहि, सएहिं नेमी उ सिद्धिगओ ॥११४॥ [आव०नि० ३०८] 20 व्या० एको भगवान्महावीरो निर्वृतो मोक्षं गतः, त्रयस्त्रिंशद्भिः पार्श्वः, षट्त्रिंशद्भिरधिकैः पञ्चभिः शतैस्सह नेमिः सिद्धिं गतः ॥ [पृ०५९] सूत्रोक्तनक्षत्रत्रयताराप्रमाणव्यतिरिक्तशेषनक्षत्रताराप्रमाणविशेषज्ञापनार्थं प्रसङ्गतो गाथाद्वयमाह छप्पंच तिण्णि एगं, चउ तिग रस वेद जुअल जुअलं च । इंदिअ एगं एगं, विसयग्गि समुद्द बारसगं ॥११५॥ चउरो तिण्णि तिअ तिअ पंच सत्त बे बे भवे तिआ तिण्णि । रिक्खे तारपमाणं, जइ तिहितुल्लं हयं कजं ॥११६॥ व्या० कृत्तिकादि कृत्वा सर्वेषां नक्षत्राणां यथासङ्ख्यं तारामानं ज्ञातव्यम्, तथाहि-कृत्तिका 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy