________________
३८ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे विशेषणविशेष्ययोरुभयं संलुलितं त्रिस्थमुच्यत इति ॥
[पृ०५३] अथवा प्राकृते तित्थमित्युक्ते व्यर्थमित्यपि लभ्यत इत्येतद्दर्शयन्नाहकोहग्गिदाहसमणादओ व ते चेव तिण्णि जस्सत्था । होइ तिअत्थं तित्थं तमत्थसद्दो फलत्थोऽयं ॥१०७॥ [विशेषाव० १०३६]
व्या० क्रोधाग्निदाहोपशम-लोभतृष्णाव्यवच्छेद-कर्ममलक्षालनलक्षणास्त एवाऽनन्तरोक्तास्त्रयोऽर्थाः फलरूपा यस्य तत् त्र्यर्थम्, तच्च सङ्घ एव, तदव्यतिरिक्तं ज्ञानादित्रयं वा व्यर्थं प्राकृते तित्थमुच्यते, अर्थशब्दश्चायं फलार्थो मन्तव्यः । इदमुक्तं भवति-भगवान् सङ्घस्तदव्यतिरिक्तं ज्ञानादित्रयं वा महातरुरिव भव्यैर्निषेव्यमाणं क्रोधाग्निदाहशमनादिकांस्त्रीनर्थान् फलत्यतस्त्र्यर्थमुच्यते
इति ॥६॥ 10 [पृ०५३] अथवा वस्तुपर्यायोऽत्रार्थ इत्याह
अथवा सम्मईसण-नाण-चरित्ताई तिनि जस्सत्था । तत्तित्थं पुव्वोदिअमिहमत्थो वत्थुपज्जाओ ॥१०८॥ [विशेषाव० १०३७]
व्या० अथवा सम्यग्दर्शनादयस्त्रयोऽर्था यस्य तत् त्र्यर्थम्, अर्थशब्दश्चात्र वस्तुपर्यायस्त्रिवस्तुकमित्यर्थः । तच्च सङ्घ एव, तदव्यतिरिक्तत्वात्, तत एव सम्यग्दर्शनादयस्त्रयोऽर्था15 स्समाहृतास्त्र्यर्थम्, सङ्ख्यापूर्वत्वात् स्वार्थत्वाच्च द्विगोरिति । तदेव सङ्घो भावतस्तीर्थं त्रिस्थं त्र्यर्थं वेति ॥ [पृ०५३] अणुलोमहेउतस्सीलत्तया य जं भावतित्थमेअं तु ।
कुव्वंति पगासंति तु, ते तित्थयरा हिअत्थकरा॥१०९॥ [विशेषाव० १०४७] व्या० इयं गाथा टीकाकृता व्याख्यातप्राया, तथापि किञ्चिदुच्यते- आनुलोम्यं च हेतुश्च 20 तच्छीलं च आनुलोम्य-हेतु-तच्छीलानि, तेषां भाव आनुलोम्य-हेतु-तच्छीलता, तया ये
तीर्थकरा य एतं भावतीर्थम् आनुलोम्य-हेतु-तच्छीलतया कुर्वन्ति तु पुनः प्रकाशयन्ति । कथम्भूतास्तीर्थकरा: ? हितार्थकराः ।।
[पृ०५४] स्वयम्बुद्धानां द्वादशोपकरणानि नामतो व्यर्द्धगाथया आह -
पत्तं पत्ताबंधो, पायट्ठवणं च पायकेसरिआ । 25
पडलाइं रयत्ताणं, गोच्छओ पायनिज्जोगो ॥११०॥ तिण्णेव य पच्छागा, रयहरणं चेव होइ मुहपुत्ती । [ओघनि. ६६८-६६९]
व्या० पात्रं पात्रबन्धः झोलिकेति, पात्रकस्थापनं पात्रकेसरिका पात्रमुखवस्त्रिका पटलानि रजस्त्राणं गोच्छकम्, अयं पात्रनिर्योगः, पात्रपरिकर इत्यर्थः । त्रयः प्रच्छादकाः कल्पा इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org