________________
३७
प्रथमाध्ययनटीकागतगाथाविवरणम् कप्पे सणंकुमारे, माहिंदे चेव बंभलोए अ । एएसु पम्हलेसा, तेण परं सुक्कलेसाओ ॥१०२॥ पुढवी आउ वणस्सइ, बायर-पत्तेय लेस चत्तारि । गब्भे तिरिअ नरेसुं, छल्लेसा तिण्णि सेसाणं ॥१०३॥
[बृहत्संग्रहणी २८८,१९३,१९४,३४२ प्रवचनसारो० ११५९,११६०,१११०] 5 व्या० व्याख्या तु सुगमैव, कृष्णा नीला कापोती तेजोलेश्या भवनपति-व्यन्तराणाम्, ज्योतिःसौधर्मेशानेषु तेजोलेश्या, सनत्कुमारे माहेन्द्रे ब्रह्मलोके च पद्मलेश्या, ततः परं देवलोकेषु शुक्ललेश्या, पृथिव्याम् अप्सु वनस्पतिषु बादर-प्रत्येकजीवेषु चतस्रो लेश्या कृष्ण-नीलकापोत-तेजोलेश्याः, गर्भजतिर्यङ्-नरेषु षड् लेश्याः कृष्ण-नील-कापोत-तेजः-पद्म-शुक्लरूपाः। शेषाणाम् उक्तव्यतिरिक्तानां तिम्रो लेश्या आद्या इति ॥
10 [पृ०५२] ओहो१ भव्वाईहिं१, विसेसिओ२ दंसणेहिं३ पखेहिं ४ ।
लेसाहिं ५ भव्व ६ दंसण ७, पक्खेहिं ८, विसिट्ठलेसाहिं ॥१०४॥ व्या० व्याख्या सुगमैव । [पृ०५३] तित्थशब्दस्य विशेषव्युत्पत्त्याऽनेकार्थतामुत्पादयन् गाथाचतुष्टयमाहजं नाणदंसणचरित्तभावओ तव्विवक्खभावाओ ।
15 भवभावओ अ तारेइ, तेण तं भावओ तित्थं ॥१०५॥ [विशेषाव० १०३३]
व्या० यद्यस्मात्तारयति पारं प्रापयति, तेन तत् सङ्घलक्षणं भावतस्तीर्थमिति सम्बन्धः। कुतस्तारयति ? इत्याह-तद्विपक्षभावादिति, तेषां ज्ञान-दर्शन-चारित्राणां विपक्षोऽज्ञान-मिथ्यात्वाऽविरमणानि तद्विपक्षस्तल्लक्षणो भावो जीवपरिणामस्तद्विपक्षभावस्तस्मात्तारयति। कुतः ? इत्याहज्ञान-दर्शन-चारित्रभावतः, ज्ञानाद्यात्मकत्वादित्यर्थः । यो हि ज्ञानाद्यात्मको भवति 20 सोऽज्ञानादिभावात् परं तारयत्येवेति भावः । न केवलमज्ञानादिभावात् तारयति, तथा भवभावतश्च तारयति, भवः संसारस्तत्र भवनं भावः तस्मादित्यर्थः । यस्मात् स्वयं ज्ञानादिभावात्मकस्तथाऽज्ञानादिभावाद्भवभावाच्च भव्यांस्तारयति तस्मादसौ सङ्घो भावतीर्थमितीह तात्पर्यम् ।। [पृ०५३] दाहोवसमादिसु वा, जं तिसु थिअमहव दंसणाईसुं।
तो तित्थं संघो च्चिअ उभयं व विसेसणविसेस्सं ॥१०६॥ [विशेषाव० १०३५] 25 व्या० अथवा यद् यस्माद्यथोक्तदाहोपशम-तृष्णाछेद-मलक्षालनरूपेषु यदिवा सम्यग्दर्शनज्ञान-चारित्रलक्षणेषु त्रिष्वर्थेषु स्थितं ततस्त्रिस्थं सङ्घ एव, उभयं वा सङ्घ-त्रिस्थितिलक्षणविशेषणविशेष्यरूपं द्वयं त्रिस्थम्, इदमुक्तं भवति-किं त्रिस्थं सङ्घः, कश्च सङ्घस्त्रिस्थो नान्य इत्येवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org