SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्ययनटीकागतगाथाविवरणम् भूमिक्खयसाभाविअसंभवओ दद्दुरो व्व जलमुत्तं । अहवा मच्छो व सहाववोमसंभूअपायाओ || १२ || [विशेषाव० १७५७ ] व्या० भौमम् अम्भः सचेतनमुक्तम्, क्षतभूमिसजातीयस्वाभाविकस्य तस्य सम्भवाद्, दर्दुरवत् । अथवा चेतनमन्तरिक्षम् अम्भः अभ्रादिविकारस्वभावसम्भूतपातात् मत्स्यवदिति ॥ [पृ०४८] तेजोऽनिलावधिकृत्याह 5 अपरप्पेरिअतिरिआनियमिअदिग्गमणओऽनिलो गो व्व । अनलो आहाराओ, विद्धिविगारोवलंभाओ || ९३॥ [विशेषाव० १७५८] व्या० सात्मको वायुः अपरप्रेरिततिर्यगनियमितदिग्गमनाद् गोवत्, तथा सात्मकं तेज आहारोपादानात्तद्वृद्धौ विकारविशेषोपलम्भाच्च नरवद् । गाथाबन्धानुलोम्याच्च व्यत्ययेनोपन्यास इति ॥ ३५ [पृ०४८] तदेवं पृथिव्यादीनां प्रत्येकं सचेतनत्वं प्रसाध्य सामान्येन तत् साधयन्नाहतणवोऽणब्भाइविगारमुत्तजाइत्तओऽनिलंताइं भूतानीति प्रक्रमः । सत्थासत्थहयाओ, निज्जीवसजीवरूवाओ || १८ || [ विशेषाव० १७५९] व्या॰ पृथिव्याद्यनिलान्तानि चत्वारि भूतानि जीवनिर्वर्त्तितास्तदाधारभूतास्तनव इति प्रतिज्ञा, अभ्रादिविकारादन्यत्वे सति मूर्त्तजातित्वाद्, गवादिशरीरवत् । अभ्रादिविकारस्तु 15 विश्रसापरिणतपुद्गलसङ्घातरूपत्वेनाचेतनत्वाद्वर्जितः । ताश्च पृथिव्यादितनवः शस्त्रोपहता निर्जीवाः, अशस्त्रोपहतास्तु सजीवा वर्ण - गन्ध - रसादिलक्षणतः समवसेया इति ।। [पृ०४८] अथ वनस्पतीनां विशिष्टैर्लोकप्रसिद्धैर्लक्षणैस्सात्मकत्वं तिसृभिर्गाथाभिर्भाष्यकार आहजम्मजराजीवणमरणरोहणाहारदोहलामयओ । रोगतिगिच्छाईहि अ, णारि व्व सचेअणा तरवो ॥ ९५ ॥ [ विशेषाव० १७५३ ] 20 Jain Education International 10 व्या० सचेतनास्तरव इति प्रतिज्ञा, जन्म-जरा-जीवन-मरण-क्षतसंरोहणा -ऽऽहार-दौहृदाऽऽमय-तच्चिकित्सादिसद्भावादिति हेतु:, नारीवदिति दृष्टान्तः । आह- नन्वनैकान्तिकोऽयम्, अचेतनेष्वपि जन्मादिव्यपदेशदर्शनात्, तथाहि - जातं तद् दधीति व्यपदिश्यते, न चैतत् सचेतनम्, तथा जीवितं विषं मृतं कुसुम्भकमित्यादि । अत्रोच्यते - वनस्पतेस्सर्वाण्यपि सचेतनलिङ्गानि जन्मादीन्युपलभ्यन्ते, अतो मनुष्येष्विव तानि तेषु निरुपचरितानि, दध्यादौ तु प्रतिनियत एव 25 कश्चिज्जातादिव्यपदेशो दृश्यते स चौपचारिक एव, जातमिव जातं दधि, मृतमिव मृतं कुसुम्भकमित्यादि ।। [पृ०४८] वनस्पतेरेव सचेतनत्वसाधने हेत्वन्तराण्यप्याह For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy