________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
सिध्यन्ति?, यादृशा हि प्रत्यक्षेण देवदत्तादयो दृश्यन्ते तेनापि तादृशा एव स्युरिति, तदयुक्तम्, विशिष्टा हि देवदत्ताद्यालयेभ्यश्चन्द्राद्यालया इति, अतस्तन्निवासिनोऽपि विशिष्टाः सिध्यन्ति, ते च देवदत्तादिविलक्षणा देवा इति । अपरस्त्वाह - ननु आलयत्वादित्ययं हेतुस्तन्निवासिजनसाधनेऽनैकान्तिकः, शून्यालयैर्व्यभिचारात् । अत्रोत्तरमाह - न च निलया आलया नित्यमेव 5 शून्या भवन्ति । अयमभिप्रायः- ये केचिदालयास्ते प्राणिदानीमेष्यति कालेऽवश्यमेव तन्निवासिभिरधिष्ठिता एव भवन्ति, न तु नित्यमेव परिशून्यास्ततो यदा तदा वा चन्द्राद्यालयनिवासिन देवाः सिध्यन्तीति ॥
[पृ०४७] पुनरप्यत्राभिप्रायमाशङ्क्य परिहारमाह
को जाणइ ? किमेयं ति, होज्ज णिस्संसयं विमाणाई | रयणमयनभोगमणा, इह जह विज्जाहरादीणं ॥ ९० ॥ [विशेषाव० १८७२] व्या० यदि वा एवम्भूता मतिः परस्य भवेद्यदुत - चन्द्राद्यालयत्वेन यद् गीयते भवद्भिस्तदिदं को जानाति किञ्चिद्भवेत् किम् सूर्योऽग्निमयो गोलश्चन्द्रस्त्वम्बुमयः स्वभावतः स्वच्छः आहोश्विदेवम्भूता एवैते भास्वररत्नमया गोलका ज्योतिष्कविमानानि, अतः कथमेतेषामालयत्वसिद्धिः?। अत्र प्रतिविधानमाह - निस्संशयं विमानान्येतानि, रत्नमयत्वे सति नभोगमनात्, 15 पुष्पकादिविद्याधरतपस्सिद्धविमानवदिति । अभ्रविकार - पवनादिव्यवच्छेदार्थं रत्नमयत्वं विशेषणमिति ॥
10
३४
20
[पृ०४७] पृथिव्यादीनां दृष्टान्तद्वारा सात्मकत्वं साधयन्नाह महाग्रन्थकारःमंसंकुरो व्व समाणजाइरूवंकुरोवलंभाओ ।
तरुगण-विद्दुम-लवणोवलादयो सासयावत्था ||११|| [विशेषाव० १७५६ ]
व्या० तरुगणास्तथा विद्रुम - लवणोपलादयश्च स्वाश्रयावस्थाः स्वजन्मस्थानगतास्सन्तश्चेतनाः, छिन्नानाममीषां पुनस्तत्स्थान एव समानजातीयाङ्कुरोत्थानात्, अर्शोमांसाङ्कुरवत् । आह-ननु पृथिव्यादिभूतानामिह सचेतनत्वं साधयितुमारब्धम्, ततः पृथिव्या एवादौ तत् साधयितुं युक्तम्, तस्या एवादावुपन्यासात्, तत् किमिति तरुगणेत्यादिना तरूणामेवादौ तत् साधितम्, पश्चात्तु विद्रुम-लवणोपलादीनामिति ? । सत्यम्, किन्तु पृथ्वीविकारतया पृथ्वीभूत व 25 तरूणामन्तर्भावो लोके प्रसिद्धः, सुव्यक्तचैतन्यलिङ्गाश्च यथा तरवो न तथा लवणोपल-जलादय इति तेषामेवादौ चैतन्यं साधितमिति ॥
[पृ०४८] अथोदकस्य सचेतनत्वं साधयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org