________________
प्रथमाध्ययनटीकागतगाथाविवरणम्
व्या० देवा इत्येतत् पदं सार्थकम्, व्युत्पत्तिमच्छुद्धपदत्वात्, घटादिवत् । तत्र दीव्यन्तीति देवा इति व्युत्पत्तिमत्त्वम्, समास-तद्धितविरहितत्वेन च शुद्धत्वम् । भावना चात्र प्रागुक्तैव। अथ परस्य मतिर्भवेत्-ननु मनुष्य एवेह दृश्यमानो देवो भविष्यति, किमदृष्टदेवकल्पनया? । किं सर्वोऽपि मनुष्यो देवः ? इति चेदाह- गुणसम्पन्नो गणधरादिः ऋद्धिसम्पन्नश्चक्रवर्त्यादिः। अत्रोच्यते, तदेतन्न, यस्मात्तथ्ये मुख्ये वस्तुनि क्वचित् सिद्धे सत्यन्यत्रोपचारतस्तत्सिद्धिमता, 5 यथा मुख्ये यथार्थे सिंहेऽन्यत्र सिद्धे ततो माणवके सिंहोपचारः सिध्यति, एवमिहापि यदि मुख्या देवाः क्वचित् सिद्धा भवेयुस्तदा राजादेर्देवोपचारो युज्यते, नान्यथेति ॥
पुनरपि देवसत्तोपपत्तये प्रत्यक्षप्रमाणोपेतां गाथामाह[पृ०४७] पुव्वं पि न संदेहो, जुत्तो जं जोइसा सपच्चक्खं ।
दीसंति तक्कया वि अ, उवघायाणुग्गहा जगओ॥८८॥[विशेषाव० १८७०] 10 व्या० इह समवसरणादिगतदेवदर्शनात् पूर्वमपि तवान्येषां च संशयो न युक्तः, यद् यस्माच्चन्द्रादिज्योतिष्कास्त्वया सर्वेणापि च लोकेन स्वप्रत्यक्षत एव सर्वथा दृश्यन्ते, अतो देशतः प्रत्यक्षत्वात् कथं समस्तामरास्तित्वाशङ्का? । किञ्च, सन्त्येव देवाः, लोकस्य तत्कृतानुग्रहोपघातदर्शनात्, तथाहि-दृश्यन्ते क्वचित् केचित् त्रिदशाः कस्यापि किञ्चिद्विभवप्रदानादिनाऽनुग्रहं तदपहरणादिना चोपघातं कुर्वन्तः, ततो राजादिवत् कथम् एते 15 न सन्तीति ॥
पुनरपि परमाशक्य ज्योतिष्कदेवास्तित्वं साधयन्नाह[पृ०४७] आलयमेत्तं च मई, पुरं व तव्वासिणो तह वि सिद्धा ।
जे ते देव त्ति मया, न य निलया निच्चपडिसुण्णा ॥८९॥ [विशेषाव० १८७१]
व्या० अथैवम्भूता मति: परस्य भवेत्-आलया एव आलयमानं चन्द्रादिविमानानि, 20 न तु देवाः, तत् कथं ज्योतिष्कदेवानां प्रत्यक्षत्वमभिधीयते ?, किं तद्यथा आलयमात्रमित्याहपुरं ति, यथा पुरं शून्यं लोकानामालयमात्रं स्थानमात्रम्, न तु तत्र लोकास्सन्ति, एवं चन्द्रादिविमानान्यप्यालयमात्रमेव, न तु तत्र देवाः केचित्तिष्ठन्ति, अतः कथं तेषां प्रत्यक्षत्वम् ?। अत्रोत्तरमाह- तथापि तद्वासिन: आलयवासिनः सामर्थ्याचे सिद्धास्ते देवा इति मता: सम्मताः, यो ह्यालयस्स सर्वोऽपि तन्निवासिनाऽधिष्ठितो दृष्टः, यथा प्रत्यक्षोपलभ्यमाना 25 देवदत्ताद्यधिष्ठिता वसन्तपुराद्यालयाः, आलयाश्च ज्योतिष्क विमानानि, अतः आलयत्वान्यथाऽनुपपत्तेः ये तन्निवासिनः सिद्धास्ते देवा इति मताः । आह-ननु कथं ते देवाः १ देवेसु - इति स्थानाङ्गवृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org