SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्ययनटीकागतगाथाविवरणम लोकाग्रस्यामूर्त्तत्वादिति। [पृ०४२] स च प्राणातिपातो द्रव्य-भावभेदाद् द्विविधः, विनाश-परिताप-सङ्क्लेशभेदात् त्रिविधो वा । आह च तप्पज्जायविणासो, दुक्खुप्पाओ अ संकिलेसो य । एस वहो जिणभणिओ, वज्जेयव्वो पयत्तेणं ॥८१॥ [श्रावकप्र० १९१] 5 व्या० तत्पर्यायविनाशो मनुष्यादिजीवपर्यायः, तस्य विनाशः १, दुःखोत्पादः २, सङ्क्लेशश्च ३, त्रिविध एष वधो जिनभणित: प्रयत्नेन वर्जनीयः । [पृ०४६] चउवीसदंडउ त्ति चतुर्विंशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्विंशतिदण्डकः, स इह वाच्य इति शेषः, स चायम् - नेरइया १ असुरादी १०, पुढवाइ ५ बेइंदियादओ चेव ४ । 10 नर १ वंतर १ जोइसिआ १, वेमाणी १ दंडओ एवं ॥८२॥ व्या० सुगमैव, सप्तपृथिवीनामेको दण्डकः, भवनपतीनामसुरादिदशनिकायभेदाद्दश दण्डकाः, पृथिव्यादीनां पञ्च, विकलानां त्रयः, गर्भजतिर्यङ्-मनुष्य-व्यन्तर-ज्योतिष्क-वैमानिका एकैकदण्डकाश्चेति सर्वे चतुर्विंशतिः । इह सूक्ष्मा अपर्याप्तकाश्च प्रायो नाधिक्रियन्ते । भवनपतयो दशविधा: 15 [पृ०४६] असुरा १ नाग २ सुवण्णा विजू ४, अग्गी ५ अ दीव ६ उदही अ ७। दिसि ८ पवण ९ थणिअ १० नामा, दसहा एए भवणवासी ॥८३॥ [प्रज्ञापनासू० २।१७७।१३७] व्या० अवान्तरजातिभेदाद्दशविधा भवनपतयस्ते च कुमाराकारत्वात्कुमारवत् क्रीडाप्रियत्वाच्च कु मारा असुरादिविशेषणाश्च सन्तोऽसुरकु मारा इत्यादिनामभिर्व्यपदिश्यन्ते । 20 तत्रासुरकुमारास्तथाविधनामकर्मोदयान्निचितशरीरावयवाः सर्वाङ्गोपाङ्गेषु परमलावण्याः कृष्णरुचयो रत्नोत्कटमुकुटभास्वरा महाकायाः१, नागकुमाराः शिरोमुखेष्वधिकशोभाः श्वेतरुचयो ललितगतयः २, सुवर्णकुमाराश्चाधिकप्रतिरूपग्रीवोरस्काः कनकगौरा: ३, विद्युत्कुमाराः स्निग्धरुचयो जिष्णुस्वभावा उत्तप्तकनकवर्णाः ४, अग्निकुमाराः सर्वाङ्गोपाङ्गेषु मानोन्मानप्रमाणोपपन्ना विविधाभरणभास्वन्त उत्तप्तस्वर्णवर्णाः ५, द्वीपकुमाराः स्कन्धवक्षःस्थलबाह्वग्रहस्तेष्वधिकशोभा उत्तम- 25 हेमप्रभाः ६, उदधिकुमारा ऊरुषु कटीष्वधिकरूपा अवदातश्वेतवर्णाः ७, दिक्कुमारा जवाग्रपदेष्वत्यन्तरूपाः सुवर्णगौरा: ८, वायुकुमारा: स्थिरपीनवृत्तगात्रा निम्नोदराः प्रियङ्गुविमलश्यामवर्णाः १. 'तत्पर्यायः प्राणातिपातपर्यायः विनाशः १' इति लीं० पा० मध्ये पाठः, किन्तु स न संगतः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy