________________
३० वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
व्या० अभ्युत्थाने गुर्वादीनामभ्युत्थानविषये पराक्रमे तथा विनये विनयसम्बन्धिनि पराक्रमे साधुसेवायां साधुसेवासम्बन्धिनि पराक्रमे सम्यग्दर्शनलाभो भवति, च पुनर्विरताविरतिलाभो भवति, विरत्या चोत्तरोत्तरगुणप्राप्तिः, तत्प्रतिपादिका गाथा तु न लिखिता ।।
[पृ०३८ पं०४] ननु दर्शनस्य ज्ञानव्यपदेश्यत्वमयुक्तं विषयभेदात्, उक्तं च5 जं सामन्नग्गहणं, दंसणमेयं विसेसिअं णाणं ॥ ति गाथार्द्धम् ।
___ व्या० यत् सामान्यग्रहणं तदर्शनं निर्विकल्पकज्ञानमित्यर्थः, विशेषितं ज्ञानं यत्र विशेषः प्रतिभासते नाम-जातियोजनात्मको यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयमित्यादि तत् सविकल्पकं ज्ञानम्, अत एव ईहा-ऽवग्रहौ हि दर्शनम्, सामान्यग्राहकत्वात्, अवाय-धारणे च ज्ञानम्, विशेषग्राहकत्वात् । अथ चोभयमपि ज्ञानग्रहणेन गृहीतमागमे ॥ 10 [पृ०३८ पं०६] अभिणिबोहिअणाणे, अट्ठावीसं हवंति पयडीओ।[आव०नि०१६] गाथार्धम्।
अभिनिबोधिकज्ञानम् अष्टाविंशतिप्रकृतिकम्, तेन मतिज्ञानस्यैव भेदो दर्शनमिति स्थितम् ३ ।
[पृ०३८] नन्ववबोधसामान्याज्ज्ञान-सम्यक्त्वयोः कः प्रतिविशेष: ? उच्यते-रुचिः सम्यक्त्वम्, रुचिकारणं तु ज्ञानम्, यथोक्तम्
नाणमवायधिईयो, दसणमिटुं जहोग्गहेहाओ । 15 तह तत्तरुई सम्मं, रोतिज्जइ जेण तं नाणं ॥८०॥ [विशेषाव० ५३६]
व्या० ज्ञानमवाय-धृती, दर्शनम् इष्टं यथाऽवग्रहेहे, तथा तत्त्वरुचिः सम्यक्त्वम्, येन रोच्यते तद् ज्ञानमिति ॥
एगा सिद्धी, सिद्ध्यन्ति कृतार्था भवन्ति यस्यां सा सिद्धिः, सा च यद्यपि लोकाग्रम्, यत आह20 [पृ०३९ पं०१६] इह बुंदि चइत्ताणं, तत्थ गंतूण सिज्झइ । [औपपातिकसू. ८८/
२, आव०नि० ९५९] त्ति गाथार्धम् । ____ अत्र बुंदि देशीभाषया शरीरं त्यक्त्वा तत्र लोकाग्रे गत्वा सिध्यति निःशेष]क्षीणकर्मा भवति, तथापि तत्प्रत्यासन्नेषत्प्राग्भाराऽपि तथा व्यपदिश्यते । आह च[पृ०३९ पं०१८] बारसहिं जोयणेहिं, सिद्धी सव्वट्ठसिद्धाओ। [आव.नि. ९६०] [इति] गाथार्द्धम्। 25 सर्वार्थसिद्धविमानाद् द्वादशभिर्योजनैः सिद्धिरिति, यदि लोकाग्रमेव सिद्धिः स्यात्तदा
कथमेतदनन्तरमुक्तम्[पृ०३९ पं०१९] निम्मलदगरयवण्णा, तुसार-गोखीर-हारसरिवण्णा।[आव०नि० ९६१] गाथार्द्धम् ।
निर्मलदकरजोवर्णा तुषार-गोक्षीर-हारसदृशवर्णा इति तत्स्वरूपवर्णनं घटते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org