________________
प्रथमाध्ययनटीकागतगाथाविवरणम्
सामाइयत्थ पढम, छेओवट्ठावणं भवे बीअं । परिहारविसुद्धीअं, सुहुमं तह संपरायं च ॥१॥ तत्तो य अहक्खायं [नवतत्त्वप्र. ३१-३२] इति । एतासामर्थो नवतत्त्वटीकातोऽवसेयः ॥ [पृ०३५] एकस्मिन् समये उपयोगद्वयनिरासाय सयुक्तिकं सदृष्टान्तकं गाथाद्वयमाह- 5 समयातिसुहुमयाओ, मन्नसि जुगवं व भिन्नकालं पि ।। उप्पलदलसयवेहं व, जह व तमलायचक्कं ति ॥७६॥ [विशेषाव० २४३३]
व्या० समयावलिकादिकालकृतविभागस्य सूक्ष्मत्वाद्भिन्नकालमपि कालविभागेन प्रवृत्तमपि क्रियाद्वयसंवेदनमुत्पलपत्रशतवेधवद् युगपत् प्रवृत्तमिव मन्यसे त्वम्, न ह्युत्पलपत्रशतमौत्तराधर्येण व्यवस्थापितं सुतीक्ष्णयाऽपि सूच्या छेकेन समर्थेनापि च वेधका समकालमेव विध्यते, किन्तु 10 कालभेदेन, उपर्युपरितनेऽविद्धेऽधोवर्तिनः पत्रस्य वेधायोगात् । अथ च वेधकर्ता युगपद्विहितमेव वेधं मन्यते, तद्वेधनकालभेदस्य सूक्ष्मत्वेन दुर्लक्षत्वात् । यथा वा तत् प्रसिद्धमलातचक्रं कालभेदेन दिक्षु भ्रमदपि भ्रमणकालभेदस्य सूक्ष्मत्वेन दुरवगमत्वान्निरन्तरभ्रमणमेव लक्ष्यते, एवमिहापि शीतोष्णक्रियानुभवकालभेदस्य सूक्ष्मत्वेन दुरवसेयत्वाद्युगपदिव तमनुभवं मन्यते भवानिति। मनोऽपि शिर:-पादादिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च युगपन्न सम्बध्यते, किन्तु 15 क्रमेणैव ॥ [पृ०३५] अन्नविणिउत्तमन्नं, विणिओगं लहइ जइ मणो तेणं ।
हत्थिं पि ठिअं पुरओ, किमन्नचित्तो न लक्खेइ ॥७७॥ [विशेषाव० २४३६] व्या० अन्यस्मिन् शीतवेदनादिकेऽर्थे विनियुक्तमुपयुक्तमन्यविनियुक्तं मनो यदि अन्नं ति अन्य उष्णवेदनादिकोऽर्थस्तद्विषय उपयोगोऽन्यस्तमन्यं विनियोगं लभते, तर्हि 20 किमित्यन्यचित्तोऽन्यार्थोपयुक्तचित्तो देवदत्तादिर्हस्तिनमपि पुरतो व्यवस्थितं न लक्षयति ? तस्मादेकस्मिन्नर्थे उपयुक्तं मनो न कदाचिदन्यार्थोपयोगं लभत इति । [पृ०३६] आणागिज्झो अत्थो, आणाए चेव सो कहेयव्वो ।
दिटुंता दिटुंतिअ कहणविहिविराहणा इहरा ॥७८॥ [आव०नि०१६६९]।। व्या० आज्ञाग्राह्योऽर्थः आज्ञयैव स कथयितव्यः, दृष्टान्ताद् दार्टान्तिकोऽर्थ इत्यर्थः, 25 तत्कथनविधिर्वक्तव्यः, इतरथा विराधना भवति । परमार्थस्तु टीकाकृता व्याख्यात एव ।।
[पृ०३७] पराक्रमादेश्च ज्ञानादिमोक्षमार्गोऽवाप्यते, यतःअब्भुट्ठाणे विणए, परक्कमे साहुसेवणाए य । सम्मइंसणलंभो, विरयाविरईए विरईए ॥७९॥ [आव०नि० ८४८]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org