________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे जो तुल्लसाहणाणं, फले विसेसो न सो विणा हेउं । कजत्तणओ गोअम !, घडोव्व हेऊ अ से कम्मं ॥६७॥ [विशेषाव० १६१३]
व्या० इह यस्तुल्यसाधनयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरनिष्टार्थसाधनसंयुक्तयोश्च द्वयोर्बहूनां वा फले सुखदुःखानुभवनलक्षणे विशेषस्तारतम्यरूपो दृश्यते, नासौ अदृष्टं कमपि 5 हेतुमन्तरेणोपपद्यते, कार्यत्वाद्, घटवत् । यश्च तत्र विशेषाधायकोऽदृष्टहेतुस्तद् गौतम ! कर्मेति प्रतिपद्यस्वेति ॥
[पृ०२७] अनुमानान्तरं कर्मसाधनायाहबालसरीरं देहतरपुव्वं इंदिआइमत्ताओ ।।
जह बालदेहपुव्वो, जुवदेहो पुव्वमिह कम्मं ॥६८॥ [विशेषाव० १६१४] 10 व्या० शरीरान्तरपूर्वकम् आद्यं बालशरीरम्, इन्द्रियादिमत्त्वात्, युवशरीरवदिति । आदिशब्दात्
सुखित्वदुःखित्व-प्राणाऽपान-निमेषोन्मेष-जीवनादिमत्त्वादयोऽपि हेतवो ग्राह्याः। न च जन्मान्तरातीतशरीरपूर्वकमेवेदमिति शक्यते वक्तुम्, तस्यापान्तरालगतावसत्त्वेन तत्पूर्वकत्वानुपपत्तेः, न चाशरीरिणो नियतगर्भ-देश-स्थानप्राप्तिपूर्वकशरीरग्रहो युज्यते, नियामककारणाभावात् । नापि
स्वभावो नियामकः, तस्य निराकरिष्यमाणत्वात् । यच्चेह बालशरीरस्य पूर्वं शरीरान्तरं तत् 15 कर्मेति मन्तव्यम्, कार्मणं शरीरमित्यर्थः ।
[पृ०२८] ननु किमदृष्टेन पुण्यकर्मस्वीकारेणेत्येवं पूर्वपक्षं कुर्वन्नाहपावुक्करिसेऽधमया, तरतमजोगावकरिसओ सुभया । तस्सेव खए मोक्खो, अपत्थभत्तोवमाणाओ ॥६९॥ [विशेषाव० १९१०]
व्या० इहापथ्याहारोपमानाद्वैपरीत्येन भावना कार्या, तथाहि-यथा क्रमेणाऽपथ्यवृद्धौ 20 रोगवृद्धिस्तथा पांशयत्यात्मानं मलिनयतीति पापम्, तस्य वृद्धौ दुःखवृद्धिरूपाऽधमता मन्तव्या,
क्रमेण दुःखं वर्द्धते यावदुत्कृष्टं नारकदुःखम् । यथा चापथ्यत्यागात् क्रमेणारोग्यवृद्धिस्तथा क्रमेण पापस्यापकर्षात् सुखस्य वृद्धिर्यावदुत्कृष्टं सुरसौख्यम् । यथा चाऽपथ्याहारस्य सर्वथा परित्यागात् परमारोग्यमुपजायते, एवं सर्वपापक्षये मोक्ष इति ॥
[पृ०२८] व्यशीतिपापभेदान्नामत आहनाणंतरायदसगं १०, दंसण णव ९-१९ मोहणीय छव्वीसा २६-४५ । अस्साय १-४६ निरियाऊ १-४७, नीयगोएण १ अडयाला ४८ ॥७॥ नरयदुर्ग २ तिरियदुर्ग २, जाइचउक्कं ४ च पंच संघयणा ५-१३ । संठाणा वि अ पंच उ ५-१८, वण्णाइचउक्क ४ मप्पसत्थं २२ ॥७१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org