________________
प्रथमाध्ययनटीकागतगाथाविवरणम् कारण-व्यापकयोरेव कार्य-व्याप्यनिवर्तकत्वात् । कर्म तु जीवत्वस्य न कारणं नापि व्यापकमिति भावः ॥ [पृ०२५] द्विचत्वारिंशत्पुण्यप्रकृती मतः सार्द्धगाथात्रयेणाह
सायं १ उच्चागोयं २, नर ३ तिरि ४ देवाउ ५ नाम एयाओ । मणुअदुगं ७ देवदुगं ८, पंचिंदिअजाइ १० तणुपणगं १५ ॥६४॥
5 अंगोवंगतिअं पि अ १८, संघयणं वजरिसहनारायं १९ । पढमं चिअ संठाणं २०, वण्णाइचउक्क सुपसत्थं २४ ॥६५॥ अगुरुलहु २५ पराघायं २६, उस्सासं २७ आयवं २८ च उज्जोअं २९ । सुपसत्था विहयगई ३०, तसाइदसगं ४० च निम्माणं ४१ ॥६६॥ तित्थयरेण सहिआ, बायाला पुण्णपगईओ । [प्रवचनसारो० १२८३-१२८६] त्ति। 10
व्या० सातं सातवेदनीयम्, उच्चैर्गोत्रम्, तथा नरायुस्तिर्यगायुर्देवायुश्च, तथा एताश्च नामकर्मप्रकृतयस्तद्यथा-मनुष्यद्विकं मनुष्यगतिमनुष्यानुपूर्वीलक्षणम्, देवद्विकं देवगतिदेवानुपूर्वीलक्षणम्, पञ्चेन्द्रियजातिः, तनुपञ्चकम् औदारिक-वैक्रिया-ऽऽहारक-तैजसकार्मणलक्षणम्, अङ्गोपाङ्गत्रिकम् औदारिकवैक्रियाहारकलक्षणम्, संहननं वज्रर्षभनाराचाख्यम्, प्रथमं चैव संस्थानं समचतुरस्राख्यम्, तथा वर्णादिचतुष्कं वर्ण-गन्ध-रस-स्पर्शस्वरूपं 15 सुप्रशस्तम्, तत्र वर्णाः शुक्ल-पीत-रक्ताः, गन्धः सुरभिः, रसाः मधुरा-ऽम्ल-कषायाः, स्पर्शाः मृदु-लघु-स्निग्धोष्णा इति । अगुरुलघु पराघातम् उच्छ्वासम् आतपम् उद्द्योतं सुप्रशस्ता विहायोगतिः, सादिदशकं च त्रस-बादर-पर्याप्त-प्रत्येक-स्थिर-शुभ-सुभग-सुस्वरा-ऽऽदेययश:कीर्तिलक्षणं निर्माणं च । एता एव तीर्थकरनाम्ना सहिता द्विचत्वारिंशत् पुण्यप्रकृतयः शुभसंज्ञिका प्रकृतयो भवन्ति । एताश्च शिवश्रीकटाक्षितानां सत्त्वानां सदैव प्राप्यन्त इति 20 गाथासार्द्धत्रयार्थः । ___ [पृ०२७ पं०६] प्रतिप्राणि प्रसिद्धयोः सुखदुःखयोर्हेतुरस्ति, कार्यत्वात्, अङ्कुरस्येव बीजमिति, यश्चेह सुख-दुःखयोर्हेतुस्तत् कर्मैव, इत्यस्ति तदिति । स्यान्मतिः- स्त्रक्-चन्दनादयः सुखहेतवः, दुःखस्य त्वहि-विष-कण्टकादय इति सुख-दुःखयोर्हेतुरस्ति, किमदृष्टस्य कर्मणस्तद्धेतुत्वकल्पनेन ?, नहि दृष्टपरिहारेणादृष्टकल्पना सङ्गतत्वमावहत्यतिप्रसङ्गात्, तदयुक्तम्, व्यभिचारात्, तथाहि- 25 १. अभयदेवसूरीणां प्रवचनसारोद्धारकर्तुः प्राचीनत्वात् न प्रवचनसारोद्धारसत्का इमा गाथाः । किन्तु कुतश्चित् प्रवचनसारोद्धारेऽपि इमा गाथाः संगृहीताः सन्ति । अत ईदृशीनां प्रायः सर्वासामपि गाथानां विवरणं प्रवचनसारोद्धारवृत्त्यनुसारेण प्रायः सर्वत्रात्र वर्तते । अतो विशेषजिज्ञासुभिरीदृशेषु स्थलेषु प्रवचनसारोद्धारवृत्तौ विलोकनीयम् ।। २. 'सिवसिरिकडक्खियाणं सया वि सत्ताणमेया' इति १२८६ तमगाथाया उत्तरार्द्ध प्रवचनसारोद्धारे।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org