________________
२४
वाचकसमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
10
तपस्संयमाद्युपायाद् व्यवच्छिद्यत इति ।
[पृ०२५] तथाऽनादेरपि सन्तानस्य विनाशो दृष्टो बीजाङ्कुरसन्तानवत् । आह चअन्नतरमणिव्वत्तिअकजं बीअंकुराण जं विहअं ।
तत्थ हओ संताणो, कुक्कुडिअंडाईआणं व ॥६०॥ [विशेषाव० १८१८] 5 व्या० अन्यतरत् अनित्यं चेत् बीजाङ्कुरयोर्विहतं कार्यम्, तत्र हतः सन्तानः, कोऽर्थः ? बीजमङ्कुरमुत्पादयति, इदं सन्तानकार्यं तदन्वयित्वेन सम्भवति, सति बीजेऽङ्करः सत्यकुरे बीजम्, तत्र बीजाङ्कुरयोः सन्तानिनोर्मध्ये एकस्य नाशे कार्यनाशः सन्तानरूपकार्यनाशः । तत्र दृष्टान्तयतिकुर्कुट्यण्डयोरिव, आदिशब्दादन्येषां परिग्रहः, यथा कुर्कुटीनाशे अण्डनाशे वा सन्तानं हतमेव॥
[पृ०२६] मोक्षाभावरूपं पूर्वपक्षिपक्षं प्रतिपिपादयिषुर्गाथैकयाऽऽहजं नारकादिभावो, संसारो नारकादिभिन्नो य । को जीवो तं मन्नसि, तन्नासे जीवनासो त्ति ॥६१॥ [विशेषाव० १९७८]
व्या० यद् यस्मान्नारक-तिर्यङ्-नरा-ऽमरभाव एव नारकादित्वमेव संसार उच्यते, नान्यः, नारकादिपर्यायभिन्नश्च कोऽन्यो जीवः, न कोऽपीत्यर्थः, नारकादिभावादन्यत्वेन कदाचिदपि
जीवस्यानुपलम्भादिति भावः, ततस्तन्नाशे नारकादिभावरूपसंसारनाशे जीवस्य स्वस्वरूपनाशात् 15 सर्वथा नाश एव भवति । ततः कस्यासौ मोक्ष इति त्वं मन्यसे, तदेतदयुक्तम्, कुतः इत्यत
आह[पृ०२६] न हि नारगादिपज्जायमेत्तनासम्मि सव्वहा नासो ।
जीवदव्वस्स मओ, मुद्दानासे व हेमस्स ॥६२॥ अपि च-कम्मकओ संसारो, तन्नासे तस्स जुज्जए नासो । 20 जीवत्तमकम्मकयं, तन्नासे तस्स को नासो ? ॥६३॥[विशेषाव०१९७९-१९८०]||
व्या० नारकतिर्यगादिरूपेण यो भावः स जीवस्य पर्याय एव, न च पर्यायमात्रनाशे पर्यायिणो जीवद्रव्यस्यापि सर्वथा नाशो मतः, कथञ्चित्तु भवत्यपि, न हि मुद्रादिपर्यायमात्रनाशे हेम्नः सुवर्णस्य सर्वथा नाशो दृष्टः, ततो नारकादिसंसारपर्यायनिवृत्तौ मुक्तिपर्यायान्तरोत्पत्तिर्जीवस्य,
मुद्रापर्यायनिवृत्तौ कर्णपूरपर्यायान्तरोत्पत्तिरिव सुवर्णस्य न किञ्चिद्विरुध्यत इति । ननु यथा कर्मणो 25 नाशे संसारो नश्यति, तथा तन्नाशे जीवत्वस्यापि नाशान्मोक्षाभावो भविष्यति, एतदप्यसारम्,
कुतः ? इत्याह-कम्मकओ इत्यादि, कर्मकृतः कर्मजनितः संसारः, ततस्तन्नाशे कर्मनाशे तस्य संसारस्य नाशो युज्यत एव, कारणाभावे कार्यस्याभावस्य सुप्रतीतत्वात् । जीवत्वं पुनरनादिकालप्रवृत्तत्वात् कर्मकृतं न भवत्यतस्तन्नाशे कर्मनाशे तस्य जीवत्वस्य को नाशः ? न कश्चित् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org